________________
भीवर्द्धमान जिन देशना ॥२४४॥
**************
प्रभावादेवंविधावसरं न प्राप्नुवंति
अथैकदा श्रेष्ठपुत्रदामनको मित्रस्य गृहे नाटकविलोकनार्थ रात्रौ गतः अर्द्धरात्रौ तद्विलोक्य निद्रावाधितो दामनकः पाद्गृहे समागतः परं गृहकपाटं दत्तं दृष्ट्वांगणस्थितमंच कोपरि सुप्तः तं तथा सुप्तं दृष्ट्वा ते सेवका अवसरं प्राप्य श्रेष्ठिनमापृच्छय यावत्तद्वधाय तत्रागतास्तावद्दामनकस्तु पूर्वमेव मंचकस्थमत्कुणबाधितस्तत उत्थाय मित्रगृहे गत्वा सुप्तः, तन्मंचकोपरि च श्रेष्ठिनः पुत्रो नाटकं दृष्ट्वा तत्रागत्य सुप्त आसीत्.
यथ ते सेवका मंचकसुप्तं श्रेष्ठिपुत्रं दामनकं विज्ञाय खङ्गेन मारयामासुः अथ प्रभाते स्वकीयमेव पुत्रं मारितं दृष्ट्वा श्रेष्ठी हृदयस्फाटतस्तत्क्षणमेव मृतः, ततो राज्ञा सभार्यः स दामनक एव तत् श्रेष्ठिगृहस्वामि कृतः एवं पूर्वभवाचीर्णदयाधर्मप्रभावात्तस्य सकला चिंतितैव भोगसामग्री संजाता. अथैकदा स्वर्णसिंहासनोपरिस्थस्य दामनकस्याग्रे कैश्चिन्नर्त्तकैरागत्य नाटकं कृतं तन्मध्ये च तैरेवंविधा गाथा पठिता.
अणुपुंखमावतावि अणत्था तस्स बहुगुणा हुंति ॥ सुह दुःख कत्थं पडउ । जस्स कयंतो वह पक्खं ॥ १ ॥ इति गाथां श्रुत्वा दामनकेन तेभ्यो लक्षमेकं सुवर्णस्य दत्तं.
ततोऽसौ साधुवचनैः सम्यकप्रकारेण जिनधर्ममाराध्य देवलोके गतः, ततश्च्युत्वा मनुष्यभवं संप्राप्य केवलज्ञानमुपाये मुक्तिं यास्यति एवं प्राणिनः स्तोकमपि तपः कृत्वा दामनकवद्भोगान् भुक्त्वाऽचिरेण मोक्षसुखानि लभते ॥ इति श्रीदामनककथा समाप्ता ॥ श्रीरस्तु ॥
*******************
*******
सद्दालपुत्र
चरित्रम् ॥
॥२४४॥