________________
श्री वर्धमान जिन देशना ॥२२९॥
कुंडकोलिक चरित्रम् ।
號號號號號蒂器继器蹤器聯蒂蒂蒂蒂蒂聯端装端發藥器端端端器遊
देवानामचित्वा शक्तिर्वर्त्तते.
अथ स स्थकारोऽपि दारुमयमश्वं घटित्वा राजानं दर्शयामास, कथितं च तेन हे स्वामिन्नत्राश्वे यूयं वा कुलध्वजकुमार आरोहतु ! तत् श्रुत्वा राजानं प्रति कुमारेणोक्तं 'हे स्वामिन् भवदाज्ञा चेत्तदाहमत्राचे समारुह्य पृथ्वीं पश्यामि, राज्ञोक्तं सुखेन विलोकय ? ततो स्थकारेण गमनागमनार्थ कुमाराय द्वे कीलिके समर्पिते, कुमारेणापि च ते कीलिके अश्वस्य पृष्टे निहिते. अथ कुमारो राजानं नमस्कृत्य सर्वेषु लोकेषु पश्यत्सु हयारूढो गगने समुत्पतितः, क्रमेण चादृश्यो बभूव. __अथ सोऽश्वः पृथ्व्यां भ्रांत्वा कस्यचिन्नगरस्य निकटे वने समुत्तरितः, तदा कुलध्वजकुमारेण तस्य कीलिके निष्कासिते, तुरंगस्य काष्टानि च पृथक् पृथग् विधाय तस्य भारकं कृत्वोच्छीर्षके दत्वैकस्य वृक्षस्य छायायां स सुप्तः, मध्याहनेऽपि तस्य वृक्षस्य छाया तथैव स्थिरीभृता. इतस्तत्रागतो मालाकारो वृक्षच्छायां स्थिरां दृष्ट्वा विस्मतश्चितयामास नूनमस्य | सुप्तस्य पुरुषस्यायं प्रभावो दृश्यते, इति ध्यात्वा स तस्य पादांगुष्टं पस्पर्श. तदा जागरितं कुमारंपति मालाकारोऽवदत् हे सत्पुरुष त्वमद्य मम गृहे माघूर्णको भव ? कुमारेणापि तत्प्रतिपन्नं, तदा मालाकारः कुमारं सार्थे कृत्वा गृहे समागतः, कुमारेणापि तत्र गृहकोणके तुरंगकाष्टभारः स्थापितः, ततो मालाकारेण भव्यरीत्या कुमारस्य भोजन कारतं. अथ दिनपाश्चात्यप्रहरे शोभाविलोकनार्थ कुमारो नगरमध्ये गतः, तत्र तेनैकं कांचनपांचालिकामंडितं तोरणैविराजितं जिनमंदिरं दृष्टं, तत्र गत्वा कुमारः श्रीमुनिसुव्रतजिनं नत्वा परमभक्त्या स्तुतिभिर्यावत्स्तवति तावदेका महिला तत्र समागत्य चैत्यस्थितान्मनुष्याम् बहिनिष्कासयामास. तदा कुमारेण चिंतितं कैषा ? कथं च पुंसो बहिनिष्कासयति ? इति ध्यात्वा
勞聯強聯號带聯藥验继晓晓晓晓晓晓柴柴柴柴柴柴榮帶盛聯號:
॥२२९॥