________________
श्रीवर्द्धमान मम भर्ता वर्तते, स च लोहमयं मीनं करोति, नृपाज्ञया च स मीन आकाशे समुत्पत्य समुद्रे प्रविशति, ततश्चोत्तममुक्ता- * कुंडकोलिक जिनदेशना|| फलानि गिलित्वा स पुनः स्वस्थाने समयाति.
चरित्रम् ॥ ॥२२८॥ अथ रथकारभार्या मुखमाप्रेडयित्वा इस्ततालं ददती हसंती प्राह 'रे कुमारेन्द्र अनेन विज्ञानेन किं । विज्ञानं तु
तदेवाहं मन्ये यन्मे दयिते विद्यते.' कुमारेणोक्तं "हे सुलोचने ! तव भर्तरि किं विज्ञानं वर्तते ?' तयोक्तमत्र नगरे कंदर्पाभियो स्थकारो मे भर्चा दारुमयमश्वं करोति, तदारुढो जनश्च षण्मासं यावद्गगने भ्रमति. अथ तयोर्वचनानि श्रुत्वा | विस्मितः कुमारो नृपसमीपे समागत्य सर्व वृत्तांतं कथयामास. राज्ञापि तत्कालं तौ लोहकाररथकाराकारितो. लोहकाराय | च राज्ञा लोहं समर्पित, तदा लोहकारेण विद्याबलेन मीनो घटितः, तस्य मीनस्य पृष्टे चैकोऽपवरकः कृतः, द्वे च कीलिते कृते. | अथ स लोहकारो राज्ञा सह मीनोपरि समारुह्य पक्षिवद् गगने उत्पतितः एवं स राजा विद्याधर इव गगने गच्छन ग्रामाकरनगरसंकुलं देशमपश्यत् । अथ स मीनो यदा सागरसमीपे समायातस्तदा नृपलोहकारौ कपाटं विधायापवरके स्थितौ. मीनश्च जलमध्ये गत्वा मुक्ताफलानि गिलित्वा तूर्ण पश्चाद्वलितः, स्वपुरे च समागतः, तौ द्वाबपि तत्पृष्टादुत्तरितौ, ततो | लोहकारेण कीलिके दूरीकृते, तदा तन्मध्यान्मुक्त फिलानि पतितानि.
अथातिविस्मितो राजा लोहकारमाह एप मीनः कथं गत्यागती कुरुते ? तेनोक्तं हे राजन् ! मया पूर्व सिद्धायिका देव्याराधितासीत् , तया च प्रसन्नया गत्यागतिकारिके द्वे कीलिके मह्यं दत्ते. तेन कीलिकायोगेनाहं गगने गच्छामि, यतो
強強聯藥端端柴柴柴號聯张继柴柴柴柴柴继器端帶晓晓驱柴柴號密器
弟聯弊端聯強聯佛聯聯端端端继继继绝號號聯發聯端聯聯端端端端端