SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिनदेशनो Rom कुंडकोलिक चरित्रम् ॥ 「帶路合密密密密整游验整张染整类亲染蒂蒂验带验游验验继游游张张强 ययं धर्मे यत्नं कुरुत । चतुर्विधधर्ममध्येऽपि शीलधर्मः प्रधानोऽस्ति. साधवस्तं शीलधमै सर्वस्त्रीवर्जनेनाराधयंति, श्राद्धाच परस्त्रीवर्जनेन ते पालयंति, ते च श्राद्धाः कुलध्वजवदिह भवे परभवे च सुखानि प्राप्नुवंति. तस्य कथा यथा अस्मिन् दक्षिणभरतक्षेत्रेऽयोध्याभिधा नगर्यस्ति, तत्र शंखाभिधो राजा राज्यं करोति, तस्य धारिण्यभिधा राज्ञी वर्तते, तस्याः कुक्षौ समुत्पन्नः कुलध्वजाभिधः कुमारोऽस्ति. स सर्वगुणसंपूर्णत्वेन कुलमंदिरोपरि ध्वज इव शोभते. अन्यदास कुमारो वनखंडे क्रीडाथ गतः, तत्रासावेकस्मिन् वृक्षतले बहुसाधुपरिवृतं मानतुंगाभिधानं गुरुं ददर्श. तं दृष्ट्वा हृष्टः कुमारस्तत्रागत्य त्रिःप्रदक्षिणीकृत्य वंदित्वोचितस्थाने समुपविष्टः गुरुरपि तमुचितं विज्ञाय धर्मोपदेशं ददौ. संसारसमुद्रोत्तारणे यानपात्रं, नरकतिर्यग्गतिदुःखानां च्छेदनेऽसिपत्रं, समस्तकल्याणानां च गृहतुल्यं शीलं निजहितकांक्षिभिः पालनीय. तत् श्रुस्वा कुमारेणोक्तं हे भगवन् ! सर्वथा शोलपालने नाहं समर्थः, अतः परस्त्रीत्यागरूपं नियमं मे यच्छत । इति स्वदारसंतोषरूपं चतुर्थव्रतमंगीकृत्य गुरुन्नत्वा स गृहमागच्छन् मार्गे द्वौ स्त्रियौ कलहं कुवैत्यौ ददर्श. तदा स कुमारस्ते अपृच्छत् भो भद्रे ! युवां कलहं किं कुरुतः। तत् श्रुत्वैकावदत् हे राजपुत्र ! अहं लोहकारभार्या सौभाग्यकंदल्य भिधास्मि, तथाहं कूपाचटं भृन्वा भाराक्रांता गृहं प्रति गच्छामि. एषा च रथकारभार्या कनकमंजरी रिक्तघटा कूपे याति. अनया रिक्तघटयापि मम मार्गो न दत्तः, एप च कलहकरणे हेतु यः, अन्यदपि च कलहकरणकारणं श्रूयतां ॥ पृथिव्यां यावन्मानं विज्ञानं वर्तते तत्सर्व मम भयस्ति, तादृक् च विज्ञानं कुत्रापि न दृश्यते. तत् श्रुत्वा कौतकेन कुमारोऽपृच्छत् हे भद्रे ! एवंविधं किं विज्ञानं तव भयस्ति ? । सा प्राह हे स्वामिन् ! शणु ॥ वंददेवाभिधो लोहकारो 弟聯条柴柴柴柴柴榮路朱柴柴柴柴柴柴柴柴聯聚柴柴柴柴桑器 ॥२२७॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy