________________
कुंडकोलिक | चरित्रम् ॥
श्रीवर्द्धमानस एकस्मिन् कोणके तथा प्रच्छन्नतया लीनो यथा तं कोऽपि न पश्यति. जिन देशना
इत एका कन्या दिव्यरूपधारिणी तत्र समागत्य जिनपूजां विधाय सखीभिर्युता नाटयं कृत्वा स्वगृहं प्रति चलिता. ॥२३०॥
अथ रजन्यां कोणकान्निर्गत्य कुमारः कंचित्पुरुषमपृच्छत् भो भद्रात्रागता सा सुलोचना कास्ति ? तेनोक्तं भो सत्पुरुष श्रृणु ? रत्नपुरनामेदं नगरं वर्तते, श्रीमुनिसुव्रतस्वामिभक्ता विजयाख्यश्चात्र राजास्ति, तेन नृपेण चेदं स्वर्णमणिरत्नमंडितं जिनमंदिरं कारितमस्ति. तस्य राज्ञो जयमालाराज्ञीकुक्षिसमुद्भवा चैषा सुंदर्यभिधा कन्यास्ति. ___अथ तां वरयोग्यां ज्ञात्वा योग्यवरार्थ चिंतातुरं राजानं वीक्ष्य कन्यया सखीपुरत एवं प्रतिज्ञा कृता, यो भूचरः खेचरश्च भवेत् स एव निजशक्त्या मम भर्ता भविप्यति, अन्यथा मेऽग्नेः शरणं, इति तया प्रतिज्ञा कृतास्ति, तत् श्रुत्वा कुलध्वजकुमारो मालाकारगृहे समागत्य निजावं सजीकृत्य रात्रौ कीलिकाप्रयोगेण राजकन्याशुवने गवाक्ष मार्गेण प्राप्तः तत्रासौ कन्यायाः पल्यंकस्य चतुर्दिक्षु अर्द्धचर्विततांबूलानि क्षिप्त्वा पुनस्तेनैव मार्गेण पश्चाद्वलित्वा मालाकारगृहे समागतः.
अथ प्रभाते प्रतिबुद्धा राजकन्या सर्वत्र तांबूल विस्तृतं वीक्ष्य चिंतयति अत्र नूनं कोऽपि त्रिदशो विद्याधरो वा रात्री समागतो विलाक्यते, इति ध्यात्वा कथमपि दिनमतिक्रम्य रजन्यां सा तत्र कपटनिद्रया सुप्ता. तदा स कुलध्वजकुमारोऽश्वमारुह्य तेनैव विधिना तत्र प्राप्तः सर्वत्र तांबूलं विकिर्य यावत् स पश्चाद्वलितस्तावत्कुमार्या कराभ्यां तद्वस्त्रांचलो गृहीतः, ततः कुमारीपृष्टेन तेनोक्तं हे भदे काष्टाश्चायोगेण भूचरोऽप्यहं खेचरो जातोऽस्मि. तत् श्रुत्वा तयोक्तं भो सत्पुरुष
盛端端端帶跳跳跳密涨涨涨器蒸器桑聯聯強器鉴柴柴柴柴柴聯茶
強強強強強聯佛聯聯柴柴柴晓晓晓蒂蒂蒂蒂蒂张晓晓晓晓晓染佛影
॥२३॥