________________
श्री वर्द्धमान जिन देशना
॥१७॥
*****
आराम
संति, ततो राज्ञा तस्यै कथितं 'हे देवि ! एभ्य एकैकं मोदकं सर्वासां निजसपत्नीनां त्वं देहि १' तत् श्रुत्वा तयैकैको मोदकः स्वहस्तेन निजसपत्नीनां दत्तः तान् भुंक्त्वा ताः सपत्न्यश्चिन्तयन्ति 'अहो मनुष्यलोके एवंविधा मोदका दुर्लभा वर्तन्ते ! शोभा आरामशोभाया जनन्या कीदग्विज्ञानं वर्त्तते ? ययैतेऽमृतरसतुल्या मोदका निष्पादिताः सन्ति. '
कथा
अथानिशर्मा विप्रो राजानं वक्ति 'भो स्वामिन्! कतिचिद्दिनानि मे पुत्रीं मम गृहे प्रेषय. यथैषा निजमातुर्दर्शनं करोति तत् श्रुत्वा हसित्वा राजोवाच 'हे भद्र ! त्वं सरलस्वभावो वर्त्तसे, नृपभार्यास्तु सूर्यमपि न पश्यंति, तर्हि तत्र प्रेषणे का वार्ता ? अथ राज्ञा विसृष्टो विमो गृहे समागत्य सर्वमपि वृत्तान्तं ब्राह्मण्यै कथितवान् तत् श्रुत्वा सा दुष्टा चिन्तयति ' विधि मम कार्यं न सिद्धं नूनं स्तोकतरक्षेपणेन तद्विषमध्ये कापि शक्तिर्न प्रादुर्बभूव, अतोऽधुना कंचित्प्रचुरमुग्रं विषं क्षिप्त्वा मोदकांच कृत्वा पुनः प्रेषयामीति ध्यात्वा प्रचुरविषमिश्रित मोदकान् घटे प्रक्षिप्य विप्राय ददौ विप्रोऽपि पुनर्घटं लात्वाऽनुक्रमेण गच्छन् तद्वाधः समागत्य सुप्तः, यक्षेण च पुनरपि तान् विषमोदकान् दूरीकृत्य तत्र दिव्यमोदकाः क्षिप्ताः अथ विप्रो राजकुले गत्वा राज्ञे तं घटं दत्तवान् एवं पुनरपि राजकुले विप्रस्य कीर्त्तविस्तृता, विप्रेणापि स्वगृहे समागत्य तत्सर्व निजभार्यायै निवेदितं तत् श्रुत्वा दृष्टा विप्रपत्नी दध्यौ 'अरे ! किमिदं जातं? सा कथं न म्रियते ? अधुना तु तालपुटं विषं प्रक्षिप्य मोदकान् प्रेषयामोति' ध्यात्वा तालपुटविषमिश्रित मोदकान् घटे प्रक्षिप्य विप्राय दत्वा सा कथयामास 'अधुना तु त्वया निश्चितं पुत्री अत्रानीतव्या, यदि राजा तां न प्रेषयति तदा त्वयात्मीयं ब्रह्मतेजो राज्ञे दर्शनीयं.' इति स्त्रीदत्तां शिक्षां श्रुत्वा घटं लात्वा पुनरपि विप्रचलितः तथा तस्यैव वटस्याधः
॥१७॥