SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥१८॥ आरामशोभा कथा 番號聯端端端端端器端端端端端端端帶聯聯盛號號號號號聯盛號器 सुप्तः. यक्षेणापि तान् विषमिश्रितमोदकान् दूरीकृत्य नवीना दिव्यमोदकास्तत्र क्षिप्ताः, विप्रेणापि गत्वा घटो राजे दत्तः, पुनरपि राजकुले तस्य तथैव यशोवादो जातः. अथ विप्रो भूपालं वदति हे राजन् ! मम सुतां प्रेषय ? यत्प्रथमप्रसूति पुत्री पितुर्गहे करोति, राजावादीद् 'भो विप्र ! एतन्न भृतं यन्नरपतीनां भार्या पितृगृहे प्रसवतीति.' तत् श्रुत्वा विप्र उदरोपरि क्षुरिकां धृत्वा नृपं भणति, 'यदि मम पुत्रीं न प्रेषयिष्यसि तर्हि तबाहं ब्रह्महत्यां दास्यामि.' अथैतद्विज्ञाय मंत्रिणा राजा भणितः, 'हे स्वामिन्नूनमेष विप्रो ग्रहिलोऽस्ति, सत्यं ब्रह्माहत्यां दास्यति. तस्माद्राज्ञी प्रेष्यतां ? इति मंत्रिवचः श्रुत्वा महती सामग्री विधाय राज्ञा पत्नी प्रेषिता. ____ अथ तया ब्राह्मण्या पूर्वमेव गृहपश्चाद्भागे कूप एकः खानित आसीत. आरामशोभापि वनखंडयुता पितृगृहे | समागत्य सुखेन तिष्ठति. अथान्यदा तत्र स्थिता सा त्रिदशोपमं पुत्रं जनयामास, कतिचिद्दिवसानंतरं सा कायचिन्ताथै | गृहपश्चाद्भागे गता, तदा प्रेष्यवर्गोऽपि सर्वः कुत्रचिद्विविधकार्याथं गतोऽभूत्. अथ सा मात्रा सहिता कूपपार्श्वे समागत्य कूपं दृष्ट्वाऽकथयत्, 'भो मातरत्र कूपः किमर्थ खानितः?' तदा सा दुष्टा विप्रपत्नी वदति 'हे पुत्रि! दराद्यदि पय आनीयते तर्हि तत्र कोऽपि विषप्रयोगः स्यात् , यतोऽत्र ग्रामे तव बहवो द्वेषिणो वर्तन्ते, तस्मात्तवार्थ मयायं | कूपः खानितोऽस्ति. अथ सा सरलस्वभावारामशोभा यावत्तं कूपं द्रष्टुं लग्ना, तावत्तया दुष्टया शिघ्रमेव सा कूपे क्षिपा, कूपमध्ये पतंत्या तयापि तृणे यक्षः स्मारितः, यक्षेणापि चपलमेव तत्रागत्य कूपे पतन्त्येव सा हस्ते धृता, ततोऽसौ यक्षस्तस्या | यस्तस्या 勇器器鉴器器聽聽聽聽聽聽聽器端端端聽器器築端端端端端端端警器 ॥१८॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy