________________
श्री वर्द्धमान जिन देशना ॥१६॥
यद्ग्रामवासिस्त्रीणां चातुर्यं नास्तीति' प्रेरितो विप्रस्तस्या दुष्टभावमजानन् सरलाशयो घटं गृहीत्वा पाटलीपुत्रं प्रति चचाल. क्रमेण नगरासन्न प्रदेशं प्राप्य श्रान्तः सन् वटवृक्षस्याघो घटं मस्तके संस्थाप्य सुप्तः, निद्रा च तस्य समागता.
sat वास्को क्षचिन्तयति अहोऽयं विप्रः किमर्थं नगरे प्रयाति ? ज्ञानोपयोगेन सर्व वृत्तान्तं विज्ञाय चिन्तयति, अरे ! अस्य विप्रस्य दृष्टया भार्यया विषमिश्रितमोदकान् कृत्वारामशोभाया मारणार्थमयं प्रेपितोऽस्ति, मयि समर्थे सत्यपि अस्याः को मरणदुःखं दातुं समर्थोस्ति ? अनया तु पूर्वभवे पुण्यान्यर्जितानि सन्तीति ध्यात्वा कुंभाद्विपमिश्रितमोदकानपहृत्य तत्स्थानेऽमृतसदृशा महास्वादुदिव्यमोदकाः क्षिप्ताः.
इतो जागरिता विप्रस्तं कुंभं गृहीत्वा राजद्वारे समागतः, तदा प्रतिहारेण गज्ञे विज्ञप्तं 'हे स्वामिन्! आराम शोभायाः जनको द्वारे समागतोऽस्ति चेद्भवतामादेशस्तर्हि स भवद्दर्शनायात्र समागच्छेत्.' तत् श्रुत्वा राज्ञोक्तं 'शीघ्रमेव तं समानय' अथ विप्रस्तत्रागत्य राज्ञे आशीर्वाद दत्वा तदग्रे घटं मुमोच राज्ञा पृष्टं 'भो भट्ट ! वर्त्तते कुशलं ?' विप्रेणोक्तं 'हे राजन् ! भवतां प्रसादात्', पुनः राज्ञा पृष्टं 'भो ब्राह्मण ! अस्मिन् कुंभे किमस्ति ?' विप्र उवाच 'स्वामिन् ! पुत्रीनिमित्तं मात्रा मोहवशा-मोदकाः प्रेषिताः संति' संतुष्टेन राज्ञा स घट आरामशोभायै प्रेषितः विश्व वस्त्राभरणादिभिः सत्कृतः
ततो राजारामशोभाया गृहे गत्वा राज्ञीदत्तासने उपविष्टः, राज्युवाच 'हे स्वामिन् ! यद्याज्ञा म्यात्तदाहममुं घटमुद्घाटयामि,' राज्ञोक्तं 'शिघ्रमुद्घाटय.' ततो यावद्राज्ञी घटमुद्घाटयति तावन्महासुगंधस्तत उच्छलितः, सर्वमप्यावासगृहं सुवासनया वासितं एवंविधान् दिव्यमादकान् दृष्ट्वा राजा दध्यौ, अहो एते मोदका नूनममृतरसनिर्मिता देवसान्निध्या जाताः
आरामशोभा
कथा
॥१६॥