________________
आरामशामा कथा
श्री वर्द्धमानी धन्यः, अनेन पूर्वजन्मनि महत्सुकृतं कृतं. यदीदृशी रूपवती महिमोपेता भार्या लब्धा.' आकाशे च नंदनवनसदृग्वनं दृष्ट्वाजिन देशना -
तीवविस्मयं प्राप्ताः संतः कथयामासु¥नमेवंविधा दिव्यद्धिः प्राच्यपुण्यविना न लभ्यते, इति विविधलोकवार्तालापान् शृण्वन् ॥१५॥ | राजा कलत्रयुतो निजमंदिरे संप्राप्तः, दिव्यप्रभावाच्च तद्वनखंडमपि मंदिरोपरि स्थितं, एवं पुण्यवशेन संसारे प्राणिनां किं किं न भवति ? अथ तया समं विषयसुखानि भुझानो राजा कियंत कालं गमयामास।
अथ तस्यानिशर्माविप्रस्यामिशिखाभिधनवपरिणीतया भार्ययका पुत्री जनिता, क्रमेण च यौवनं प्राप्तां तां विलोक्य सा दुष्टामिशिखा चिन्तयति यद्यागमशोभा म्रियते, तथा मम सुतामारामशोभाया भगिनीत्वेन तत्वेन तत्सदृग्गुणान्वितां विज्ञाय राजा परिणेष्यति. अपरं चास्याः सपत्नीसुताया मारणेन पातकमपि न स्यात्, अतः केनाप्युपायेनैना मारयामीति ध्यात्वा सा निजस्वामिनं भणति, 'भो स्वामिन् ! एकं मम वचनं शृणु. अस्माभिरारामशोभाया निमित्तं कदापि मोदकाः किं प्रेषिता न सन्ति ?' विप्रो वदति 'हे भद्रे! तस्या गृहे न कापि न्यूनता वर्त्तते, एषा पुण्यवशात्सर्वसुखानि भुक्ते,' तत् श्रुत्वा दुष्टात्मा भट्टप्रियाऽवादीत् , 'हे स्वामिन् ! युष्माभिरेतदयुक्तमुक्तं, मातृपितृसत्कं वस्तु धनाढ्यापि पुत्री वाञ्छति, एवं तस्या अत्याग्रहं दृष्ट्वा विप्रेण तस्यै प्रोक्तं, यद्येवं तर्हि कुरु त्वं मोदकान्. ततस्तया दुष्टया बहुद्रव्यव्ययेन विषमिश्रिताः सिंहकेसरिमोदकाः कृता. तांश्चैकस्मिन् घटे प्रक्षिप्योपरि मुद्रां दत्वा तं घटं च विप्राय समर्प्य कथयामास, 'हे स्वामिन्नेष घटस्त्वया स्वसुतां विनाऽन्यस्य कस्यापि न देयः, तथा तस्यै त्वयैवं वक्तव्यं यदिमे मोदकास्त्वयैव भक्षणोयाः, अन्यस्य कस्यापि | न देयाः, यत एते मोदका अतीवसुंदरा न सन्ति, ततो यदि चेत्कस्यापि दास्यसि तदा राज्यकुले मम हास्यं भविष्यति
廢柴柴柴晚柴柴继器晓鱗器佛聯聯端端勞柴柴聯柴晓晓晓晓晓晓晓
张端跳跳跳盛醫藥鑑識聽器端整器器器验能够继鹽樂器端能够带张继號
| ॥१५॥