________________
आराम
श्री वर्द्धमान जिन देशना ॥१४॥
शोभा
कथा
张继柴柴柴號勝榮涨涨涨涨涨器樂器茶器聯藤藤藤藤藥禁藥謊器:张继
तस्या बालाया रूपलावण्यतनुसुंदराकारादि पश्यन् विस्मितो राजा चिन्तयति, 'किमेषा स्वर्गात्पातालादागता वा काऽपि देवकन्या वर्तते ? यद्यसौ मम पत्नी भवेत्तदा भव्य.'
अथ मंत्र्यपि राज्ञो भावं ज्ञात्वा बालां प्रत्यब्रवीन्, 'हे भद्रे! असौ जितशत्रराजास्ति, अत एनं स्वपतिं कृत्वा निजमनुष्यभवं सफलं कुरु ?' तत् श्रुत्वा सा कन्या लज्जयाधोमुखं विधायोवाच 'भो मंत्रिन् ! भवद्भिर्युक्तमुक्तं, परं कुलांगनानां स्वेच्छयैवैतत्कार्य कतै न युज्यते. अस्मिन् ग्रामेऽग्निशर्माभिधो विप्रो मम जनकोऽस्ति, तस्य युष्माभिः पृष्टव्यं.' अथ राजादेशेन मंत्री तत्र गत्वा राज्ञो निमित्तं विप्रं प्रति पुत्रीं याचते. तदा विप्रोऽपि मंत्रिवचनं श्रुत्वा वदति, 'भो मंत्रिन् ! मम प्राणा अपि स्वामिनः संति, तर्हि कन्यायाः का वार्ता ?' ततो मंत्री विप्रयुतस्तत्र वनखंडे समागतः, विप्रोऽपि
नृपं प्रत्याशीर्वादं दत्वा तद्दत्तासने उपविष्टः, अथ मंत्रिणा विप्रोक्तं सर्व राज्ञे निवेदितं, राजापि कालविलंबमसहमानो | गांधर्वविवाहेन तां बालां परिणीतवान् .. ____ अथ तस्या उपरि तन्नंदनवनोपमं वनं दृष्ट्वा हृष्टेन राज्ञा तस्या आरामशोभेति नाम दत्तं विप्रायाऽपि राज्ञा तस्य | दारिद्यदुःखनिवारणाय द्वादश ग्रामा दत्ताः,
अथ राजा तां विप्रपुत्री गजारूढां विधाय यावत्स्वपुरं प्रति चलितस्तावत्तद्वनखण्डमपि तदुपरिच्छत्राकारं भृत्वा गगनस्थं | चचाल. क्रमेण राजा निजनगरसमीपं प्राप्तवान्. पूर्वगतेन मंत्रिणा सर्वसामग्री प्रगुणीकृत्य सर्वमपि नगरं शंगारितं, ततो | राज्ञापि महताडंबरेण नगरमध्ये प्रवेशः कृतः, तद्विलोकनार्थ स्थाने स्थाने मिलिता लोकाः परस्परं ब्रुवन्ति नूनमेष नरेन्द्रो
柴柴柴柴柴柴柴柴柴柴柴柴聯懿馨號號號跳號號號樂器鑑聽;聽器
॥१४॥