________________
आराम
श्री वर्द्धमान जिन देशना ॥१३॥
शोभा
कथा
端游柴柴柴柴晓张晓柴柴柴柴继器晓晓號號號號號染染染带染管樂
अथैकदा सा तत्र कल्पवृक्षच्छायायां सुप्तास्ति, इतस्तत्र पाटलीपुत्रनगरनिवासी जितशत्रनामगजा सैन्यसहितः समागतः, नंदनवनसदृशं सच्छायं तद्वनं विलोक्य च तत्र तेन निवासः कृतः, राजा त्वेकत्र कल्पवृक्षच्छायार्या सिंहासनं संस्थाप्योपविष्टः, तत्रस्थवृक्षपुष्पफलानि विलोकयति, गजा वृषभाश्च वृक्षेषु बद्धाः. स्थाश्च वृक्षच्छायायां स्थिताः, सुभटा अपि ॐ शीतलतरुच्छायायां सुप्ता..
अथ सा विप्रसुता सैन्यकोलाहलेन जागरिता सती निजधेनूस्तत्रादृष्ट्वा चिन्तयति, नूनं सैन्यकोलाहलेन मे गावो दरं गता भविष्यन्ति, अतस्ता विलोक्य पश्चादानयामीति ध्यात्वा ततोऽग्रे गंतुं प्रवृत्ता, तदा तत्पृष्टे तद्वनमपि धावितं वृक्षबद्धकुंजराश्वोष्ट्रवृपभादयोऽपि धावितुं लमाः, तत्स्वरूपं दृष्ट्वा राजा विस्मयं प्राप्तश्चिन्तयति, अहो! अदृष्टाश्रुतपूर्वमेतदाश्चर्य वर्तते, यद्गजाऽश्वोष्ट्रवृषभसहित आरामोऽयं धावति. ततोऽसौ यावत्सम्यग विलोकयति तावत्तेन वनखण्डेन सह धावमाना सा कन्या दृष्टा, तद् दृष्ट्वा विस्मितो राजा मंत्रिणं कथयति भो मंत्रिन् ! नूनमेपा बाला स्वधेनूनां वालनार्थ धावति, इति कथयित्वा मंत्री तस्या बालायाः समीपे गत्वा मधुरवावयः कथयामास, 'भो बाले! त्वं पश्चाद्वलस्व, तव नष्टा धेनूर्वनादहमानयिष्यामि, यतस्त्वत्पृष्टे सर्वमपीदं वनं धावति, तेन चेमे राजादिसर्वलोका भयभीता जाताः सन्ति.' इति मंत्रिवचः श्रुत्वा सा बालाप्यनुकंपया पश्चाद्वलिता, पुनश्च तत्र समागता, वनमपि तत्रैव पुनः समागतं, मंत्रिपषितपुरुषैर्गावः समानीताः, सैन्यमपि सर्व स्वस्वस्थाने स्थिरीभूतं.
अथ मंत्री नृपं प्रति वक्ति 'हे स्वामिन् ! युष्माभिर्यदिदमाश्रय दृष्टं तत्सर्वमस्या चालाया एव माहात्म्य ज्ञेयं । अथ
張亲亲亲亲张密密塞塞塞塞泰聽器塞塞塞塞柴柴柴柴察杂際%
॥१३॥