________________
श्री वर्द्धमान जिन देशना ॥१२॥
****
स्थाने जग्मुः' इति पुनः पुनर्जल्पती यावत्पः निजोत्संगं विलोकयति तावत्तया मर्यो न दृष्टः, ततो विस्मिता मती सा चिन्तयति 'किमिदमहं प्रत्यक्षेण पश्यामि वा स्वप्नं पश्यामि ? अथवा चित्तस्य कोऽपि सम भ्रम उत्पन्नः ? इति यावत् सा चिन्तयति तावदश्रुतपूर्वं वचनं प्रकटितं, ' हे चाले तव मत्वादहं तुष्टोऽस्मि, परं घृणिवेति' वदन्नेको देवो हाराहारकुंडलमुकुटादिमंडितो दिव्यरूपधारी तथा बालया दृष्टः तं च दृष्ट्वा सा वाला मुग्धभावेन वदतिस्म, 'भो सुरोत्तम! यदि त्वं तुष्टोऽसि तहिं चरन्तीनां मडेनूनां मम च सूर्यातपोद्भूतां धर्मपीडां निवारय ?' इति श्रुत्वा सुरण चिन्तितं नूनमेषा वाला मुग्धास्ति य कल्पतरुसमानान्मतो धत्तुरफलं वाञ्छति, परं भवत्वस्या एव मनोवाञ्छितं इति विचिन्त्य देवेन तदुपरि शिघ्रं नंदनवनाभिरामं वनं निर्मितं ततोऽसौ देवस्तां विप्रसुतां प्रत्युवाच 'हे सुते अथ यत्र त्वं ब्रजिष्यसि तत्र तत्रासौ वनखण्डः सर्वर्तुकुसुमीपेतो मनोहरामृतरसादयधकस्वादुफला लंकृत तरुश्रेणिमंडितो गगनस्थो गमनागमनं करिष्यति ततो यथा देवांगना नंदनवने क्रीडां कुर्वति, तथा त्वमप्यत्र क्रीडां कुरु ? पुनर्हे पुत्रि ! कष्टसमये मां स्मरेति' कथयित्वा सुरः स्वस्थाने गतः अथ हर्षितवदना सा विप्रपुत्री तमनोहरफलानि भक्षयित्वा तृप्तिं प्राप्ता सती चिन्तयति, 'अहो ! स्तोकेनापि परोपकारेण यदीदृशं फलं जातं, तर्हि बहूपकारकरणेन यत्फलं जायते तस्य का वार्त्ता क्रियते ?' इति विस्मयं प्राप्तासौ संध्यायां धेनुगृहीत्वोपरिस्थितदिग्धारामयुक्का निजगृहे समागता, तदा तस्यै मात्रोक्तं भो वत्से त्वं भोजनं कुरु ? तयोक्तं हे मातरद्य मे शरीरे पटुत्वं नास्ति, तेन च मम श्रुधा लग्ना नास्ति.
अथ रजन्याः पश्चिमयामे पुनरपि सा धेनूगृहीत्वा बहिर्गता एवं सर्वदासौ तत्र दिव्यारामे क्रीडां करोति..
श्री आराम शोभा
कथा
॥१२॥