________________
श्री वर्द्धमान जिन देशना ॥११॥
वेदत्र समायास्यन्ति तदा मां गृहीत्वा करंडके क्षेप्स्यन्ति तेन चाहं महाकष्टे पतिष्यामि, तस्माचं मां रक्ष रक्ष तव च परोपकारेण महत्पुण्यं भविष्यति, पटन शीलादस्माच्छरीराच्चेत्परोपकारो न क्रियते तर्हि लब्धजन्मनः किं सारं ? काले यत्सूर्य उदयमधिगत्य पृथ्वी मण्डलं प्रकाशयति, चंहोऽपि यदुद्योतं करोति, मेघा जलधारां वर्षन्ति, समुद्रो निजमर्यादां न मुञ्चति, वृक्षाश्च फलंति, शेषनागः पृथ्वी मण्डलं शीर्षे धारयति, तत्सर्वमपि ते परोपकाराय कुर्वन्ति, यदुक्तं
१ विहलं जो अबलंबे । आवयपडिअं च जो समुद्धारे ॥ सरणागयं च रूक्खे । तेहिं तिहिं अलंकिया पुहवी ॥ १ ॥ एवं ज्ञात्वा हे महाभागे ! मां निजोत्संगे संस्थाप्य वस्त्रेण चाच्छाद्य संगोप्य रक्षय. '
अथेत्यहिवचनानि श्रुत्वा विद्युत्प्रभा मनसि चिंतयति, 'पूर्वभवे मया सुकृतं न कृतं तेनाहं चात्र दुःखिता जाता, इदानीमपि चेत्पुण्यं न करिष्यामि तदा परभवे चाहं कथं सुखी भविष्यामीति' चिन्तयित्वा सा बालात्मानं निर्भयं विधाय तं सर्प च निजोत्संगे संस्थाप्य सम्यग् संगोप्य स्थिता, इतस्ते गारुडिकास्तत्र समागत्य बालां भणति, 'हे वाले इतस्त्वया hts फणी गच्छन् दृष्टो न वा ?' तदा सा कथयति, 'भो पुरुषाः ! अहं त्वत्र तरुच्छायायां मुखमाच्छाद्य सुप्तास्मि, ततो न कमपि जानामि . '
**************************************
farai श्रुत्वा ते गारुडिकाः परस्परं ब्रुवंति, 'एषा बालिका तादृग्भयंकर सर्पदर्शनेनात्र कथं स्थातुं शक्नुयात् ?' इत्युक्त्वा तत्र समंताद्विलोक्य तं सर्पमलब्धमानास्ते सर्वेऽपि गारुडका गताः । अथ बाला तं सर्पप्रति जजल्प, 'हे भद्र! अथ त्वं शंकां त्यक्त्वा मदुत्संगाद्बहिर्निस्सर १ तव शत्रवो गारुडका निज- ॐ
१ बिकले य अवलम्बेत् आपतपतितं यो समुद्धरेत् । शरणागतं च रक्षेत् तै; तैरलंकृता पृथ्व
श्री आराम शोभा
कथा
॥११॥