________________
भींवर्द्धमान जिन देशना ॥२२०॥
चुल्लगशतक चरित्रम् ॥
Saamada skesed Needese detataste Release aate.
धनवत्या सह कुमारो रजन्यां नगरान्निर्गत्य क्रमेण जलधितटे प्राप्तः, तत्र च स तया सह प्रवहणे चटितः, परं मार्गे प्रतिकूलवातेन तत्प्रवहणं भग्न. आयुर्बलेने धनवती फलकं लब्ध्वा क्रमेण समुद्रतटे प्राप्ता, ततोऽसौ कुसुमपुरनगरे समागत्य, तत्र लोकमुखात्प्रियमेलकाभिधयक्षस्य तीर्थ समभावं विज्ञाय तस्य चैत्ये समागता, तत्र च यावन्मे भर्ता न मिलिष्यति | तावदहमत्र तपः करिष्यामीत्यभिग्रहं गृहीत्वा तपस्तपंती सा स्थिता. ___अथ स कुमारोऽपि लब्धफलका क्रमेण रत्नपुरे प्राप्तः, तत्र रत्नप्रभाख्यो राजा राज्यं करोति, तस्य रत्नसुंदर्यभिधा राज्ञी वर्चते, तस्या रत्नवत्याख्या पुत्री तदा सर्पण दष्टासीत्, तेन तत्र बहवो मंत्रवादिनो मिलिता आसन्. तैव उपचाराः | कृताः, परं तस्या गुणो न जात. तदा राज्ञा नगरमध्ये पटहो वादितः, सिंहलकुमारेण च स पटहः स्पृष्टः, तदा राजपुरुषैः स राज्ञाः समीपे समानीतः, कुमारेणापि नृपादेशेन स्वमंत्रवलेन सा सज्जीकृता. तुष्टेन राज्ञा शुममुहूर्त सा तेन सह परिणायिता.
अथ कुमारेण प्रथममेवाभिग्रहोऽगृहीत आसीत यद्यावन्मे धनवती न मिलिष्यति तावदहं शीलवतं पालयिष्यामि. अथ सप्तभौमावासे रत्नवती समागत्यातीवरमणीयपल्यकोपरि मृदुशय्यायां सुप्ता, परं कुमारस्तत्रागत्य भूमौ सुप्तः, तदा रत्नवत्या चिन्तितमसौ भूमौ कथं सुप्त ? यत:
घरे घेणु ने लुखो खाय । घरे घोडो ने पालो जाय॥ घरे पल्यंक ने धरती सुए। तेहनी पइरी जीवताने रुए॥
架密器架黎黎黎部裝张語密語語語樂张张张黎张张张张龄器強器界
॥२२०॥