________________
श्रीवर्द्धमान जिन देशना ॥२२१॥
*******
इति ध्यात्वा तया पृष्टं हे स्वामिन्! पल्यंकं मुक्त्वा त्वं धरित्र्यां कथं सुप्तः ? तदा कुमारः सपत्नीभयेन कल्पितोत्तरं ददौ 'हे देवि मम प्रतिज्ञा वर्त्तते, देशविलोकनार्थमहं यदा निर्गतस्तदा पित्रोर्विलोकनावधि मया शीलव्रतपालनस्य भूमिशयनस्य च नियमः कृतोऽस्ति. ' तत् श्रुत्वा रत्नवत्योक्तं ' हे स्वामिन् त्वं धन्यः कृतपुण्यवासि, यस्य पित्रोः प्रत्येतादृशी भक्तिर्वर्त्तते अथ राज्ञा पृष्टेन कुमारेणात्मीयः सर्वोऽपि वृत्तांतस्तस्मै निवेदितः, तदा राजा रत्नीवतीयुतं कुमारं विसृष्टवान्. कुमारोऽपि भार्यायुतः प्रवहणे चटितः राज्ञा रुद्राभिषो निजमंत्री तयोः सार्थे दत्तः ततः प्रवहणं जलधौ चलितं.
अथान्यदा तेन रुद्रामात्येन रत्नवत्या रूपं दृष्ट्वा कामांधीभूय चिंतितमेनमेकाकिनं विदेशिनं जलधौ क्षिप्त्वानया रत्नत्या सह भोगं विलसामीति ध्यात्वा स कुमारस्य छिद्राणि विलोकयामास. अथान्यदा कुमारः कायचिन्तार्थं रात्रौ मंचिकायामुपविष्टः, तदा प्रवहणे सर्वेषु लोकेषु सुप्तेषु स दुष्टात्मा मंत्री मंचिकारज्जू छित्वा कुमारं सागरेऽक्षिपत् ततस्तेन पूत्कृतं 'हा हा कुमारः समुद्रे पतितः, ' तत् श्रुत्वा विरहातुरा रत्नवती विलापं कर्त्तुं लग्ना. तदा रुद्रेणागत्योक्तं 'हे भद्रे ! त्वं विलापं मा कुरु ? अहं सदा तव दास्यं करिष्यामि, ततस्त्वं मे भार्या भवेति श्रुत्वा रत्नवत्या चिंतितं नूमनेन दुरात्मना मे भर्त्ता समुद्रे क्षिप्तोsस्ति, है है अथैष दुरात्मा मे शीलं खंडयिष्यति, ततोऽस्य किंचिदप्युत्तरं दत्वाधुना मे शीलं रक्षामीति ध्यात्वा रत्नवत्योक्तं 'हे मंत्र तीरे गत्वैतस्य मृतकार्यं कृत्वा तवोक्तं करिष्यामी'ति श्रुत्वा मंत्रो हृष्ट उवाच 'हे प्रिये एवमस्तु' अथाये गच्छत्प्रवहणं भग्नं. उक्तं च-विश्वासवातकानां कृतघ्नानां मित्रद्रोहकारिणां पापानां वंचकानां च सुखं नैव भवति' अथ रत्नवत्या पुण्येन फलकं लब्धं, क्रमेण च सा कुसुमपुरे समागत्य प्रियमे लकतीर्थे तपः कुर्वती स्थिता. अथस दुष्टमन्त्र्यपि फलकं प्राप्य कुसुमपुरे समा
***********************
चुल्ल गशतक चरित्रम् ॥
॥२२९॥