________________
श्रीवर्द्धमान जिनदेशना ॥२१९॥
चुल्लगशतक चरित्रम् ॥
是躲整条路路路路路柴柴柴柴晓晓器能整晚整整染染聯柴柴柴柴柴」
कुमारवधाय धावितः, तदा कुमारो निजोत्तरीयं तदग्रेक्षिपत् , इस्त्यपि यावत्तदुत्तरीयं प्रति दंतप्रहारान् करोति तावत्सा कन्या ततः पलायिता, कुमारश्च चपलमेव तदंतयोनिजपादौ स्थापयित्वा तत्स्कंधे समारुरोह. ततोऽसौ तमंकुशप्रहारादिभिर्वशे नीत्वालानस्तंभे बंधयामास. राजा तं वृत्तांतं श्रुत्वातीवहृष्टो जात, नगरे च कुमारस्य कीर्तिविस्तृता, सा कन्यापि कुमारोपरि सानुरागा जाता. यदुक्तं
गुणाः कुवैति दूतत्वं । दूरेऽपि वसतां सतां ॥ केतकीगंधमाघ्रातुं। स्वयमायांति षट्पदाः ॥१॥
ये प्राणिना शरीरधनवचनादिभिः परेषामुपकारं कुर्वति ते इह भवेऽपि संपदां भाजनं भवति. ततो धनश्रेष्टिना सा निजपुत्री धनवती कुमाराय परिणायिता.
अथ स कुमारो यदा क्रीडाथै नगरमध्ये भ्रमति तदा तद्पादिभिर्मोहितहृदयाः सर्वा अपि स्त्रियस्तत्पृष्टे परिभ्रमंति. तदृष्ट्वा सर्वोऽपि महाजनो मिलित्वा राज्ञः समीपे समागत्य विज्ञपयामास- 'हे स्वामिन्नस्माकं सर्वाणि कार्याणि सीदति यतः सिंहलकुमारो यदा नगरमध्ये भ्रमति तदास्माकं सर्वा अपि स्त्रियो गृहकार्याणि त्यक्त्वा तत्पृष्टे एव भ्रमंति.' तत् श्रुत्वा राजा महाजनाय बहुमानं दत्वोवाच 'भो महाजन ! यथा भवतः सुखमुत्पत्स्यते तथोपायेन करिष्यामीत्युक्त्वा तेन महाजनो विसृष्टः,
अथ राज्ञा कुमारस्य नगरमध्ये परिभ्रमणं निवारितं, तेन दनोऽसौ देशांतरं प्रति गंतुकामो धनवतीं पप्रच्छ, 'हे सुभगेऽहं देशांतरे यामि ततस्तयात्र सुखेन स्थेयं. धनवत्योक्तमहं त्वां विना स्थातुं न शक्नोमि, अतस्त्वया सहैव समेष्यामि, ततो
者發號號號號號继端游游游游带路器器勞聯遊晓晓晓晓晓晓晓密密聯
१२१९॥