________________
श्रीवर्द्धमान जिन देशना ॥२१८॥
चुल्लगशतक चरित्रम् ॥
聯鼎盛聯號聯聯象器继整张馨柴聯柴聯聯聯柴柴柴桑蒂樂器樂聚落
व्यापारे संति. पुनः षट् गोकुलानि तस्य गृहे संति. अथान्यदा श्रीवर्द्धमानस्वामी तत्र शंखवनोद्याने समवसृतः, देवैः समवसरणं कृतं, द्वादश पर्षदो मिलिताः, चुल्लगशतकोऽपि प्रभोरागमनं श्रुत्वा निजगोत्रियैः सह प्रभुवंदनाथं तत्र समायातः, वंदित्वा च यथास्थानमुपविष्ट:. प्रभुणा देशना दत्ता, भो भो भव्यलोका लोके यच्चक्रवर्तिपदवी देवेंद्रपदवी स्वर्गमुखं तीर्थंकरसंपत् मनुष्यसुखानि च, तत्सर्व धर्मस्यैव फलं ज्ञेयं, स च धर्मों दानशीलतपोभावभेदश्चतुर्धास्ति, पुनः स एवाभयदानसुपात्रदानानुकंपादानोचितदानकीर्त्तिदानभेदैः पंचधाप्यस्ति. सर्वजीवानामभयदानेन तेषां प्रत्यात्म| वद्यद्वर्त्तनं तदभयदानमुच्यते, तत्सर्वथाभयदानं साधव एव दातुं समर्था भवंति, तदभयदानेन च बहवः साधवो मोक्षे गता
गच्छंति गमिष्यंति च. अतः सर्वजीवानामभयदान देयं. कालवेलायां साधुभ्यः शुद्धाहारवस्त्रादेर्यदानं तत्सुपात्रदानं | ज्ञेयं. यः सुपात्रदानं ददाति स धनदेवधनमित्रवन्मनुष्यसुखानि भुक्त्वा मोक्षमुखानि प्राप्नोति.
तथाहि-अस्मिन् जंबूद्वीपे सिंहलनामा द्वीपोऽस्ति, तत्र सिंहलेश्वराख्यो राजा वर्त्तते, तस्य सिंहलाख्या भार्या सिंहलसिंहाख्यश्च पुत्रोऽस्ति. स कुमारोऽन्यदा वसंतमासे वनमध्ये क्रीडाथै गतः, तत्र रममाणोऽसावेकायाः कन्यकाया हाहावं शुश्राव. ' हे तात मां रक्ष रक्ष ? हे जननि ममोपरि करुणां कुरु ? हे कुलदेव्योऽस्मिन् समये यूयं क्व गताः ?' इत्यादि तस्याः करुणस्वरं श्रुत्वा परदुःखदुःखितः स सिंहलकुमारश्चिन्तयति किं तया जनन्या ? यज्जनितपुत्रस्य हृदये परोपकारोन विभाति. इति ध्यात्वा स कुमारस्तन्छन्ददिशि धावितः, तत्रैकेन गजेन गृहीतां रुदंती कन्यां दृष्ट्वा सोऽब्रवीत् 'रे रे मातंग ! त्वं मुंचेमां वाला ? यदि तव पौरुषं वर्त्तते तदैहि मम पार्श्वे ?' तत् श्रुत्वा क्रुद्धः स हस्ती तां कन्यां मुक्त्वा
出张黎张张紫器密器樂器张密整黎黎黎黎黎黎黎黎黎张黎张黎整器
॥२१८॥