SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ *22* श्री वर्द्धमान जिन देशना व ॥१९७॥ चुलनीपिता श्रावक चरित्रम् ॥ ** * श्राद्धोत्तम ! अद्य त्वं कुत्र शयनं करिष्यसि ? तेनोक्तमद्य तु भवत्पादमूलेऽत्रैव शयनं करिष्यामि. तैरपि तत्प्रतिपन्नं. अथ तेषु सर्वेषु सुप्तेषु सोऽपि तद्विहारसर्वस्वं मुषित्वा स्वगृहे गतः, प्रगे विहारं मुषितं विज्ञाय बौद्धाचार्यों विषण्णो नृपसमीपे गत्वा सर्व वृत्तांतं कथयामास. ततोऽसावपि विमृष्टो निजस्थाने गतः. अथ मंत्री कपिलभक्तं परमहंसनामानमाचार्यमाय चौरप्रकटनार्थ कथयामास. सोऽपि प्रभाते कथयिष्यामीत्युक्त्वा स्वस्थाने समागतः. अथ तत् वृत्तांत विज्ञाय सहस्रमल्लोऽपि कुलपुत्रकवेषं कृत्वा तत्रागत्य स्वर्णपुष्पैश्च परमहंसपादौ पूजयित्वा तच्चरणयोः पतितः. कथितं च तेन 'हे भगवन् ! भवत्समीपेऽहं ध्यानाभ्यासं कर्तुमिच्छामि.' गुरुणोक्तं 'भो उत्तम ! प्रथमं त्वं मम हंसाभिधशिष्यपार्थे तदभ्यासं कुरु ?' ततोऽसौ तस्य समीपे गतः, हंसेनोक्तं ध्यानाभ्यासो रजन्यामेव स्यात. अथ रात्रौ स परमहंसो मंत्रजापे स्थितः, सहस्रमल्लोऽपि हंसकथितलेशमात्रध्यानाभ्यासे स्थितः. ततः सर्वेषु सुप्तेषु स सर्व मुषित्वा स्वगृहे गतः. प्रभाते परमहंसेन तत्स्वरुपं विज्ञाय राज्ञे प्रोक्तं, ततो राज्ञा विसृष्टोऽसावपि स्वस्थाने समायातः. अथ मंत्री सुरपियनामानं भूतवादिनं पाखंडिनमायामास. सोऽपि नृपसमीपे समागतः. राज्ञा तस्मै प्रोक्तं प्रथम त्वं स्वमतं प्रकटय ? तेनोक्तं 'पुण्यं पापं जीवः परलोको मुक्तिर्वा किमपि नास्तीत्यस्माकं मतं वर्त्तते.' ततो नृपदत्तास. नोपविष्टाय तस्मै मंत्रिणा चौरपकटनाथ कथितं, तेनोक्तं प्रभाते मंत्रादिना विलोक्य कथयिष्यामि, अथ राज्ञा विसृष्टः ॥१९७|| *
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy