________________
श्री वर्द्धमान जिन देशना
॥१९॥
चुलनीपिता श्रावक
चरित्रम्
柴柴柴柴柴柴柴柴柴柴號號號蒸蒸蒸器桑藤条藤染器崇器整张继端游
सहस्रमल्ल आश्रमसारं सर्व गृहीत्वा रात्रावेव पलायितः. प्रभाते निजाश्रमं मुषितं विज्ञाय सन्यासी राज्ञोऽग्रे गत्वा निजवृत्तांतं कथयामास.
अथ राजा तमपि विसयं शिवधर्माभिधं शिवोपासकं विप्रं समाहृय चौरगवेषणार्थ कथयामास. तेनाप्युक्तं 'प्रभाते ज्ञानेन ज्ञात्वा कथयिष्यामि.' ततो राज्ञा सन्मानपूर्वकं विसृष्टोऽसावपि निजस्थाने समागतः. जननीमुखात्तत्स्वरूपं ज्ञात्वा स नवीन वेषं विधाय शिवाचार्यसमीपे समागतः. 'ॐ नमः शिवायेति' कथयित्वा हस्तौ संयोज्योवाच 'हे भगवन् यद्यहं शिवधर्मयोग्यः स्यां तर्हि मे भवदीक्षा दीयता ? आचार्येणापि 'धर्मस्य त्वरिता गतिः' इति स्मृत्वा स द्रुतं दीक्षितः.
अथ रजन्यां तस्मिन्मंत्रजापोद्यते शेषेषु शिष्येषु सुप्तेषु स मठसारं गृहीत्वा पलायितः. प्रभाते सोऽपि नृपसमीपे गत्वा निजवृत्तांतं कथयामास. राज्ञापि सविसृष्टो निजमठे गतः.
अथ मंत्री मंज(जु)श्रीनामानं बौद्धाचार्यमाकार्य चौरगवेषणकृते तथैव कथयामास. तेनाप्युक्तं 'मम ज्ञानेन ज्ञात्वा नूनमहं पगे तत्स्वरूपं कथयिष्यामि. राज्ञा विसृष्टः सोऽपि निजस्थाने समागतः. तद्वृत्तांतं विज्ञाय सहस्रमल्लोऽपि बौद्धश्रावकवेषं विधाय तत्समीपे समागत्य वंदित्योपविष्टः. तदाचार्येणोक्तं 'भो श्रावक त्वं कुतः समागतोऽसि ? तेनोक्तमहं दक्षिणदेशतः समागतोऽस्मि, अद्य च मया नियमः कृतोऽस्ति, यद्भिक्षुकेभ्यो भोजनं दत्वैव मया भोक्तव्यं,' आचार्येणापि तत्पतिपन्न. ततोऽसौ कांदविकापणतो मोदकघृतपूरादिस्वादिष्टभोजनानि लात्वा सर्वेभ्यो बौद्धभिक्षुकेभ्यो भोजयामास. तेन च ते सर्वेऽपि तस्योपर्यतीव प्रसन्ना बभूवुः. अथ रात्रौ गुरौ मंत्रजापे समुद्यते सति शिष्यैस्तस्मै भक्तिमते श्राद्धाय पृष्टं, 'भो