________________
श्री वर्धमान जिन देशना
चुलनीपिता श्रावकचरित्रम्॥
॥१९८॥
染除聯柴柴柴染器器錄器強號聯聯聯聚柴柴柴聯強柴柴柴柴柴柴聯
सोऽपि स्वस्थाने समायातः. अथ सहस्रमल्ल एतद्वयतिकरं विज्ञायैकाया नवयौवनाया दिव्यरूपाया वेश्यायाः समीपे गतः, तस्यै कर्पूरमिश्रितं तांबूलं दत्वा तेन कथितं चेत्त्वं मम कार्य करोषि तर्हि ते दश दीनाराणि बहुमूल्यवस्त्राणि च दास्यामी त्युक्तया तयापि लोभेन तत्प्रतिपन्नं ततस्तेनोक्तं त्वया मया सह समागत्य यदहं वदामि तत्सर्व मौनेन कर्त्तव्यं, अथ तत्प्रतिपयनंतरं स तां लात्वा तस्य सुरपियस्य समीपे गतः, तं नमस्कृत्याग्रे चोपविश्य कथयामास 'हे भगवन् ! एषा मम भगिनी भवत्समीपे दीक्षितुं समीहते, तद्पादिमोहितेन तेनोक्तं युक्तमिदमस्ति, परमस्मदीक्षाया एवंविध आचारो वर्त्तते.
'प्रथममेकः पशुहन्तव्यः, ततो मया सह मद्यपानमेकभाजने कर्त्तव्यं, निजपतिरिवाहं तया दृष्टव्यः. तेनोक्तं मम भगिनी तत्सर्व करिष्यति. ततस्तेन स सर्वोऽपि विधिः कृतः, ततस्तयाचार्येण शिष्यैश्च सह रात्रौ मद्यपानं कृतं. अतिमद्यपानात्सर्वेऽपि विकलत्वं प्राप्ताः, नष्टविवेका वस्त्राणि विधूय धरित्र्यां पतिताः, तदा सहस्रमल्लस्तन्मठसर्वस्वं मुषित्वा | स्वगृहे समागतः. प्रभाते स सुरपियो लब्धचेतनो नृपाये गत्वा सकलं निजोदंतं कथयामास. ततो राज्ञा विसृष्टः सोऽपि निजस्थाने गतः.
एवं स्तोकेनापि कालेन तेन सर्व नगरमपि मुषितं. राजा चिन्तातुरो जातः, सर्वे मंत्रिणोऽपि तद्ग्रहणे मतिरहिता जाताः. सहस्रमल्लस्तु बहुजीववधं करोति, परकलत्राणि भुनक्ति, परं तं गूढमायाविनं न कोऽपि जानाति, एवं स नित्यं नरकगतिभायोग्यानि कर्माणि करोति.
अथैकदा तत्र नगरे विशुद्धाभिधः केवली समागतः, तद्वंदनार्थ राजाद्याः सर्वे लोकास्तत्र समागताः, सहस्रमल्लो
柴晓晓號染帶柴柴柴柴柴聯继蒂柴柴柴柴柴柴柴柴聯验柴柴
८॥