________________
चुलनीपिता श्रावक चरित्रम् ॥
****
श्रीवर्द्धमान *
श्रीवीरजिनमंदिरे प्राप्तो जिनरक्षितश्राद्धेन दृष्टः साधार्मकरागेण भाषितश्च. 'भो श्राद्धोत्तम ! त्वं कुतः समागतः ? कुत्र जिन देशना |
च गमिष्यसि ? तेनोक्तं 'जिनदासाख्यः श्राद्धोऽहमस्मि, चंपानगर्यां च वसामि, मे चारित्रग्रहणमनोरथो वर्तते, ॥१९॥
सांप्रतं तीर्थयात्रां करोमि, श्रीशत्रुजयरैवतगिरिसम्मेतशिखरमथुरायोध्याकलिकुंडादिस्थानेषु तीर्थयात्रां विधायाधुनात्र समागतोऽस्मि.' तच्छत्वा जिनदत्तस्तं वंदित्वा प्रशशंस, 'भो श्राद्धोत्तम! त्वं धन्योऽसि कृतपुण्योऽसि, त्वज्जीवितं च सफलं जातमस्ति, यज्जिनदर्शने तवेशी मतिर्वर्त्तते किंच भो श्राद्ध ! अद्य त्वया मद्गृहे चैत्यवंदनं कार्यमित्युक्त्वा जिनरक्षितस्तं निजगृहे समानयत् तत्र चैत्यवंदननकरणानंतरं तेन स निमंत्रितो 'भो श्राद्ध ! अद्य त्वया मद्गृहे भोजनं कार्यम्।' तेन धृर्तेनोक्तं ' परगृहे मे भोजनं कर्तुं युक्तं न.' | जिनरक्षितोऽवादीत 'भो श्राद्ध ! जिनधर्मवासितांतःकरणैर्निजगृहपरगृहांतरं न गणनीयं.' तच्छ्त्वा तेनापि तस्य गृहे भोजनकरणं प्रतिपन्न. ततो जिनरक्षितेनोक्तं 'भो श्राद्धोत्तम ! भवतो यावदत्र स्थिरता भवेत्तावन्मम गृहे एव भवद्भिर्भोक्तव्यं शयनीयं च, धूर्तेनापि तस्य महताग्रहेण प्रतिपन्नं. ततो जिनरक्षितेनोक्तं 'भो श्राद्ध अद्य राज्ञा मम चौरविलोकनार्थमादेशो दत्तोऽस्ति. तेनाहं स्वयं मंत्रजापं करोमि, त्वं चात्र पल्यंके सुखेन शयनं कुरु ? इत्युक्त्वा स एकांते गत्वा मंत्रजापमकरोत्. ततोऽवसरं प्राप्य सहस्रमल्लस्तद्गृहसारं सर्व मुषित्वा नष्टः. प्रत्यूषे च गृहं मुषितं ज्ञात्वा जिनरक्षितेन तत्स्वरूपं राज्ञे निवेदितं,
ततो नृपादेशेन मंत्रिणा विमलकीर्तिनामा दिगंबराचार्यः समाकारितः, सोऽपि तत्रागत्य धर्मवृद्धिर्भवत्विति कथ
******
能帶柴柴柴柴柴柴柴继端游藤器鉴器柴柴柴柴柴柴柴端端柴柴聯继說
**
*
॥१९३॥
**