________________
श्री वर्द्धमान जिन देशना ॥१९२॥
चुलनीपिता | श्रावक चरित्रम्
带张晓帶路帶路路路路路器鉴器器器器聯聯發器端端帶帶路聯聯合
क्तेन राज्ञा निजाभरणानि समुत्तार्य पार्चे स्थापितानि, ततोऽसौ पल्यकोपरि सुप्तः. अथ चौरेण तस्यांगमईनं निजकलया तथा प्रारब्धं यथा द्रुतमेव राज्ञो निद्रा समागता. एवं तं सुखप्रसुप्तं विज्ञाय तदाभरणानि गृहीत्वा स द्रुतं राजमंदिरानिर्गतः. द्वारपालेनापि सोजमर्दको विज्ञाय न निवारितः, एवं स गृहे समागत्य तान्याभरणानि निजमात्रेः समर्पयामास.
अथ मगे मबुद्धो राजांगमईकमाभरणानि चाऽदृष्ट्वा विलक्षीभूतः प्रातःकृत्यानि कृत्वा गतप्रमोदः सभायामागत्योपविष्टः,
इतः सामंतामात्यादयः सर्वेऽपि तत्र समागताः- राज्ञो मुखाकृतिं दृष्ट्वामात्येन पृष्टं 'हे स्वामित्रद्य यूयं कथं विलक्षभूताः स्थ? तदा राज्ञा सर्वोऽपि रात्रिवृत्तांतः कथितः. अमात्येनोक्तं 'स्वामिन्नेष चौरः कोऽपि गृढमतिदृश्यते, अतस्तस्य ग्रहणे कोऽप्युपायः क्रियतां?' राज्ञोक्तमथ क उपायः कार्यः ? मंत्री माह 'स्वामिन् धर्माचार्यानाहूय तेषां मंत्रादिज्ञानबलेनास्य चौरस्य शुद्धिः कार्या.' राज्ञापि नत्प्रतिपन्न. अथ मंत्रिणाहतो जिनचंद्राभिधः श्वेतांबरो मुनिर्जिनरसिताख्यश्राद्धेन सह राज्ञः सभायां समागत्य धर्मलाभं दत्तवान्. राज्ञापि वंदनपूर्व तस्मै आसनं प्रदत्तं, ततस्तत्रोविष्टं मुनि पति मंत्री प्राह 'हे भगवन् ! कश्चिञ्चौरो नित्यं नगरी मुष्णाति, अतो यूयं ज्ञानबलेन विलोक्य तं प्रकटं कुरुत?' तदा मुनिनोक्तं 'भो मंत्रिन्नेष ह्यस्माकमाचारो नास्ति.' तच्छत्वा मंत्रिणोक्तं 'भो मुने राज्ञो वचनेन त्वयाऽनाचारोऽपि कर्तव्यः' इतस्तेन जिनरक्षितश्रावकेण कथितं मम पार्चे एको मंत्रोऽस्ति, तेन ज्ञात्वाहं कथयिष्यामि. मंत्रिणोक्तं तहि त्वमेवैतत्कार्यं कुरु ? ततो विसृष्टा गुरषो निजस्थाने गताः,
अथ स चौर एतवृत्तांतं विज्ञाय कपटश्रावकीभूयोत्तरासंग विधाय पुष्पभृत्करंडकं करे कृत्वा चैत्यवंदनां कुर्वन् क्रमेण
॥१९२॥