________________
चुलनी
पिताश्रावक चरित्रम् ॥
श्रीवर्द्धमान | यित्वा नृपदत्तासने समुपविष्टः. तदा मंत्रिणा तस्मै प्रोक्तं 'भो आचार्य यूयं भवतः कैवलिकायां विलोक्य चौरस्वरूप प्रकजिन देशना
टयत ? तेनोक्तं निशायां विलोक्य कथयिष्यामि. ततो राज्ञा विसृष्टोऽसौ निजस्थानके समागतः. ॥१९४॥
अथ तं व्यतिकरं विज्ञाय सहस्रमल्लो विमलकीर्तिपार्चे समागत्य मुनीन् वन्दयामास. मुनिभिरपि धर्मवृद्धिर्भवविति निगदितं. तत ऋषिणा पृष्टं 'कोऽसि त्वं ? कुतश्च समायातः ?' तेनोक्तं 'श्वेतांब्या अहं समागतोऽस्मि, संसारभयादुद्विग्नो भवत्समीपे च प्रव्रज्याग्रहणोत्सुकोऽस्मि.' मुनिनोक्तं ' तर्हि त्वमत्र कतिचिदिनानि छात्रत्वेन तिष्ट ? पश्चाद ज्ञास्यते.' ___अथ मुनिना रात्रौ चौरज्ञानार्थमेकांते गत्वा मंत्रजापः प्रारब्धः, शिष्याणां च निद्रा समागता. ततोऽसौ सहस्रमल्लो यत्किचिच्चैत्यमध्ये आसीत्तत्सर्व गृहीत्वा पलायितः. इतः पाश्चात्यरात्रौ जागरिताः शिष्यास्तं नवीनं छात्रमपश्यंतो गुरुभ्यस्तन्निवेदयामासुः. गुरुणोक्तं विलोक्यतामुपकरणादिकमस्ति न वा ? तैविलोक्योक्तं 'हे भगवन् ! भवत उपकरणादिकं किंचिदपि नास्ति.' तच्छ्रुत्वा गुरुणोक्तं ' हा हा धिर धिग् तेन धुर्तेन वयमपि विगुप्ताः' 'कटं रे कटु नठं रे सव्व. मवि नई' इत्युक्त्वा मूर्खया स धरित्र्यां पतितः, शिष्यैश्च शीतलोपचारैः सावधानीकृतः, ततस्ते शिष्या अंञ्जलिपूर्वक गुरून् विज्ञपयामासुः 'हे भगवन् ! भवद्भयो नमोऽस्तु, प्रसादं कृत्वा कथ्यतां ? भवतः किं बहुमूल्यं वस्तु तेन चौरेण गृहीतं, येन भवतो मूर्छा समागता.' दिगंबराचार्यो ऽवादीत् 'भो शिष्य मम उपध्यंतर्गोपितानि विंशति दीनाराणि गतानि, एवं तेन पापिष्टेन तस्करेण धनं हरता मम माणा अपि हृताः. तदा गुरोः खेददूरीकरणार्थ वृद्धशिष्येणोक्तं 'हे भगवन् ! चंद्रगृहस्थस्य जलधौ प्रवहणे भग्ने तस्य सर्व धनं गतं. तेन विषादपरस्य तस्य यया गाथया भवद्भिर्धर्मोपदेशो दत्तस्तां
器串聯懿端端樂路路器樂樂器跳跳跳跳端端柴柴柴柴柴柴柴聯张来自
॥१९४॥