________________
श्रीवर्द्धमान
श्रीरत्नसार कथा।
॥१७४॥
器錄器錄器器继继继涨涨涨涨继涨涨涨器器能器器端器鉴蒸蒸器端器
थितार्थ करोति स पुमान त्रिभुवनेऽपि दुर्लभो वर्तते. ततस्त्वं चेत्प्रार्थनाभंग न कुर्यास्तदाहं त्वां प्रार्थयामि, यतःनिण लहुअंतुस लहु। तिणतुसउ हु पत्थगा लहुआ॥ ताओ हु पुण लहुओ। पत्थणभंगो कओ जेण|१|| परपत्थणा पवन्नं । मा जगणी जगेसु एरिसं पुत्तं ॥ मा उयरेवि धरिज्जसु । पत्थियभंगो कओ जेण ॥२॥
तत् श्रुत्वा कुमारोऽवादीत् 'भो राक्षसेंद्र ! यत्कार्य मया कत्तै शक्यं तत्वं सुखेन वद ?' तत् श्रुत्वा राक्षसेनोक्तं 'तर्हि त्वमस्या नगर्या राज्यं गृहाण ? अहं त्वां योग्यं ज्ञात्वा राज्यं यच्छामि, ततस्वं स्वेच्छया राज्यसुख सुक्ष्व ! अहं तव सर्वदिव्यभोगान् पूरयिष्यामि, भृत्यवच्च नित्यं तब सेवां करिष्यामि. सर्वे राजानस्तव वशवर्तिनो भविष्यन्ति.'
तत् श्रुत्वा कुमारो हृदि चिन्तयति ' असौ राक्षसेन्द्रो मे राज्यं ददाति, राज्यं च नूनं पुण्यत एवं प्राप्यते, परं पूर्व मया परिग्रहपरिमाणवतग्रहणसमये राज्यग्रहणनियमः कुनोऽस्ति, अस्मै राक्षमाय च मया प्रार्थनाभंगाऽकरणाय वचनं दत्तमस्ति, अतोऽधुना विषमसंकटे पतितोऽहं किं करोमि ? एकतः प्रार्थनाभंगो भवति, अन्यतश्च व्रतभंगो भवति', इति विचिन्त्य तेनोक्तं 'भो राक्षसेंद्र ! त्वमपरप्रार्थनां कुरु ? यतो राज्यग्रहणे मम नियमोऽस्ति. अतः किं तेन दाक्षिण्येन ? येन गृहीतव्रतभंगः म्यात. किंच तेन कांचनेनापि किं ! येन कर्णविनाशः स्यात्.' १ तृणं लघुकं तुषं लघुकं. तृणतुषाभ्यां प्रार्थना लघुका नाभ्योऽपि पुनः लघुकः प्रार्थनाभंगः कृतो येन । परप्राथनाप्रपन्न
मा जननी जनय एतादृशं पुत्रं । उदरेऽपि मा धर प्रार्थनाभंगो कृतो येन ।
४॥