________________
श्रीवर्द्धमान जिन देशना ॥१७३॥
श्रीरत्नसार कथा॥
日密聯密密密落染染染染染染亲亲亲亲亲弟弟柴柴柴柴茶器茶张张;
| मया सार्द्ध युद्धं कुरु !
तत् श्रुत्वा कुमारोऽब्रवीत् हे राक्षसेंद्र! मम निद्राविघ्नं त्वं कथं करोषि ? मे निद्राच्छेदं कुर्वन् त्वमपि निद्राच्छेदं प्राप्स्यसि. यतः
धर्मनिंदी पंक्तिभेदी निद्राछेदी निरर्थक, कथाभंगी वृथापापी पंचैतेऽत्यंतपापिनः ॥१॥
ततोऽधुना त्वं नूतनसर्पिमिश्रितेनातिशीतलजलेन मम पादतलं संघट्टय ? यथा मे पुनरपि निद्रा समागच्छेत्. तत् श्रुत्वा कुणपेन चिन्तितं ' नूनमस्य जगत्यद्भुतं चरित्रं वर्तते, यदसौ सिंहपार्थान्मृग इव मम पार्धात्स्वपादसंघट्टनमभिलपति. अहो ! अस्य कीदृक साहसिकत्वं धैर्य च वर्तते ! सांप्रतं तु मयैतत्कथनं करणीयं,' इति विचिन्त्य राक्षसः सुरभिघृतमिश्रितवारिणा तत्पादतलं घर्षयामास. अहो! पुण्यप्रभावाञ्जगति दुर्लभमपि किं किं न प्राप्यते ? धर्मात्सर्वमपि वांछितं लभ्यते. एवं भृत्यवन्निजपादतलघर्षणं कुर्वन्तं पलादं दृष्ट्वा रत्नसारकुमार उत्थाय तं प्रति कथयामास 'हे देव ! मनुष्यमात्रेणापि यन्मया | तुभ्यमाज्ञा दत्ता तत्क्षम्यतां ? तव भक्त्याहं तुष्टोऽस्मि, अतस्त्वं वरं वृणु ? यत्किंचिदपि तव दुःसाध्यं कार्य भविष्यति तत्सवमप्यहं करिष्यामि.'
तत् श्रुत्वा विस्मितचित्तो राक्षसश्चिन्तयति, “अहो ! एतत्तु सर्व विपरीतं जातं, यन्मम सुरस्योपरि मनुष्योऽयं तुष्टः | असौ च यन्मम दुःसाध्यं कार्य कर्तुं समीहते, तदपि सेवकपार्धात्कल्पवृक्षः समीहितं वांछति. अस्य मनुष्यस्य समीपे देवस्य मम किं वस्तु प्रार्थनीय भवेत् ? तथाप्येतत्परीक्षार्थमहं किंचित्प्रार्थयामीति' ध्यात्वा स मधुरवचनस्तं प्रत्युवाच. ' यः परप्रा
強染染染柴柴柴柴柴晓晓晓静第柴柴柴柴柴柴柴柴柴柴继游游游
॥२७३॥