________________
श्री वर्द्धमान जिन देशना
॥१७२।।
श्रीरत्नसार कथा॥
भयं नास्ति.' इत्युक्त्वा कुमारो राक्षसस्य बलं ज्ञातुं रणभूमाविव पुरोमध्ये प्राविशत्. तत्र शून्यनगरे केचिद् हट्टास्तेन चंदनभताः, केचित्सुवर्णैभृताः, केचिद्धनसारराशिभिभृताः, केचित्पूगीफलभृताः, केचिच्च नालिकेरादिभिर्भूता दृष्टाः. एवं निर्जनां शून्यां तां नगरीं विलोकयन् क्रमेण स राजमंदिरे सप्तभूम्युपरि प्राप्तः, तत्र तेनेका मनोहरातीवकोमला शय्या दृष्टा, तस्यां शय्यायामसौ निर्भीको निर्भरनिद्रया निजगृहे इव तत्र स्वपितिस्म.
इतो मनुष्यचरणप्रचारं दृष्ट्वा क्रुद्धः पलादम्नत्रागत्य सुखसुप्तं तं दृष्ट्वा चिन्तयामास, 'अरे यत्स्थानं मनसापि ध्यातुं न शक्यते तत्रास्मिन् स्थाने कोऽसौ धृष्टः समागत्य सुप्तोऽस्ति ? अथैनं धृष्ट कया रीत्याहं मास्यामि ? किं फलोटनमिवैनं त्रोटयामि ! वैन नखाग्रेविदारयामि ? उत गदया चूरयामि ? अथवा चिर्भटवदेनं क्षुरिकया छेदयामि ? वैनं ज्वलदग्नौ क्षिपामि ? वा कन्दुकवद्गगने उल्लालयामि अथवैन मुत्पाट्य समुद्रे क्षिपामि ? अथवै विधचिन्तनेनालं. असौ मम गृहे प्राघूर्णकीभृयाद्य समागतोऽस्ति. तदेतस्य मारणं न शोभनं, गृहे समागतः शत्रुरपि न मारणीयः. यतः
आगतस्य निजगेहमप्यरे-गौरवं विदधते महाधियः । मानमात्मसदनमुपेयुषे भार्गवाय गुरुरुच्च तां ददौ ॥ १॥
ततो यावदसौ न जागर्ति तावदस्य मया किमपि न कथनीयं, पश्चाद्यदुचितं तत्करिष्यामीति ध्यात्वा स ततो निर्गत्य बहून् पिशाचान् समाकार्य पुनस्तत्रागत :.
तथापि तं तथैव तत्र सुप्तं दृष्ट्वा स पलादस्तमुत्थाप्य कथयामास रे निर्लज ! त्वं मम गृहाद् द्रुतं याहि ? अन्यथा
॥१७॥