________________
श्री वर्द्धमान जिन देशना ॥ १७१ ॥
चौरेणागत्येयं सर्वापि नगरी मुषिता, वयं च निर्धनीकृताः' तत् श्रुत्वा कुपितो राजा कोट्टपालमाहूय तद्वृत्तांतं तस्मै कथयामास. कोट्टपालेनोक्तं 'स्वामिन् महाव्याधिवदसाध्योऽयं चौरोऽस्ति, तस्य ग्रहणे कोऽप्युपायो न सिद्ध्यति तत् श्रुत्वा राजा स्वयं करे खङ्गं धृत्वा नित्यं रात्रौ चौरविलोकनार्थं निर्गच्छति अथैकदा रात्रौ स चौरो नगरे कस्यापि धनिनो गृहं मुषित्वा द्रव्यग्रंथिं वा पथि धावमानो राज्ञा दृष्टः, राजापि तत्पुष्टे धावितः परं स चौरो राज्ञो दृष्टिं वैचयित्वैकस्मिन्मठे प्रविश्य तत्र च तापसपार्श्वे ग्रंथि विमुच्य क्वापि पलायितः राजा तत्पृष्टे मठमध्ये समागत्य यावद्विलोकयति तावदेकस्तपस्वतत्र सुप्तोऽस्ति, तस्य पार्श्वे च द्रव्यग्रंथिं विलोक्य स चिन्तयति नूनमेष एव चौरस्तापसवेषं विधाय सर्वामपि नगरी मुष्णाति, अधुना चात्रागत्य कपटनिद्रया सुप्तोऽस्ति.
इति विचिन्त्य क्रुद्धो राजा तापसमुत्थाप्य कथयामास 'रे दुष्ट पापिष्ट ! तापसवेषेण सर्वा मम नगरीं मुषित्वाधुना कपनिद्रया त्वं कथं सुप्तोऽसि ? सांप्रतं द्रुतमेव तब दीर्घनिद्रां दास्यामीत्युक्त्वा निःकारणं निःकरुणो राजा तं वध्वा प्रत्यूषे मारणार्थमारक्षकाय समर्पयामास. आरक्षकोऽपि तं मुण्डितमस्तकं विधाय खरोपरि समारोप्य नगरे भ्रामयित्वा शूलायामारोपयामास एवं स तापसो मृत्वा दुष्टराक्षसीभूतः क्रोधेनात्रागत्य राजानं मारयामास ततस्तद्भयेनेतः सर्वेऽपि नगरीलोकाः पलायिताः संति. अद्यापि यः कोऽप्यत्र नगरे राज्ञोन्तःपुरे गच्छति तं स राक्षसो मारयति तेन हेतुना हे सत्पुरुष ! तव पुरीप्रवेशमहं निवारयामि.
एवं सारिकाया वचनचातुरीं दृष्ट्वा कुमारोऽतीव विस्मितो वदति, 'भो सारिके ! तस्य राक्षसस्य मे मनसि मनागपि
श्रीरत्नसार
कथा ॥
॥ १७१ ॥