________________
श्री कर्द्धमान जिन देशना
॥१७०॥
तदा कुमारोऽपि कोषात्करवालं निष्कास्य तत्पृष्टे धावितः, एवं तस्य पृष्टे धावन् कुमारोऽतीव दूरं गतः इतः स पुरुषो गगने समुत्पत्यादृश्यीभूतः तदा विस्मितः कुमारो निजहृदि चिन्तयति, 'नूनमेष मम वैरी कोऽपि विद्याधरो देवो दानवो वा वर्त्तते, यो मे शुकराज लात्वा पलायितः, हा वीर धीर कीर ! त्वां विना मे का गतिर्भविष्यति ? पुनस्त्वं मे कथं लक्ष्यसे ?' इति खेदं विधाय पुनधैर्ये धृत्वा स चिन्तयति 'रे जीव ! त्वं दुःखं मा कुरु ? दुःखकरणतो न कापि सिद्धिर्भवति, अत उद्यमं विधाय कथंचिदपि शुकं लब्ध्यैवाहं पश्चाद्वलिष्यामीति' ध्यात्वा स वनमध्ये इतस्ततो भ्रमन् शुकं विलोकयति, परं तेन कुत्रापि शुकस्य शुद्धिर्न लब्धा. दिनं यावद्वनमध्ये सर्वत्र भ्रांस्वा संध्यासमये स एकं विशालं नगरं ददर्श. तन्नगरं प्रप्रतोल्यादिमंडितमुत्तुंगतोरणराजिविराजितमहेभ्यमंदिरैः शोभितं ध्वजपताकादिभिरलंकृतं महर्द्धियुक्तं च विलोक्य यावत्तत्तोल्यां स प्रविशति तावद्वप्रोपर्युपविष्टैका सारिका तं प्रत्यवादीत् 'हे पुरुष ! त्वं नगरमध्ये मा प्रविश !
तत् श्रुत्वा विस्मित हृदयेन कुमारेणोक्तं ' भो सारिके ! नगरप्रवेशाय त्वं मां कथं निवारयसि ?'
सारिकयोक्तं ' हे सत्पुरुष ! यदि त्वं ते सुखसमाधिं समीहसे तर्हि नगरमध्ये मा प्रविश ? एषा मां मुधा निवारयतीति त्वं मा जानीहि ? केवलं तव हितायैव त्वामहं निवारयामि यदि च त्वं तत्कारणं श्रोतुमिच्छसि तदा शृणु ? इदं रत्नपुराभिधं नगरं वर्त्तते, अस्मि पुरंदगख्यो नृपो राज्यं कुरुते, सम्यग्रीत्या च स प्रजां पालयति. इतो नानावेषधारकः कोऽपि तस्करोss समागत्य नित्यं धनिनां गृहेषु क्षात्रं दत्वा द्रव्यं मुष्णाति आरक्षकैः सुभटैश्वापि स गृहीतुं न शक्यते.
अथान्यदा नगर्याः सर्वे लोका मिलित्वा राज्ञः समीपे समागत्य प्रणम्य च राजानं विज्ञपयामासुः 'हे राजन् ! केनापि
श्रीरत्नसार कथा ॥
॥ १७० ॥