________________
श्रीवमानान्तं निवेदयामास. तदा चक्रेश्वर्यपि विमानमा रुह्य परिवारयुता तत्रागत्याशीर्वादपूर्वकं विवाहसामग्री समानीय महामहोत्सवेन *श्रीरत्नसार जिन देशना तयोः कुमारेण सह पाणिग्रहणं कारयामास, ततस्तया नानागवाक्षमंडितः सप्तभौमपासादः कुमाराय निगासाथ समर्पितः. कथा ॥ ॥१६९।। कुमारोऽपि तत्र ताभ्यां सह विषयसुखानि भुभानः सुखेनाऽतिष्ठत्.
अथ चक्रेश्वरीदेव्यादेशतः स सुरस्तयोः कन्ययोः पितरमेतत्समस्तवृत्तांतकथनेन वापयामास. तत् श्रुत्वा प्रमुदितचित्तः कनकध्वजराजा मंत्रिसामंतश्रेष्ठिप्रमुखपरिवारयुतश्चतुरंगसेनया सह पुत्रीस्नेहेन तत्रायातः. कन्याशुककुमारप्रमुखा अपि सन्मुख गत्वा राजानं नमश्चक्रुः. राजापि रत्नसारकुमारं दृष्ट्वातीवहृष्टो बभूव.
अथ कुमारेण देवसहायतो राज्ञो भोजनादिभिर्विविधा भक्तिः कृता. ततो राज्ञा कुमारं प्रति कथितं 'भो महाभाग ! अथ त्वं नगरे समागत्यास्मान् कृतार्थान् कुरु ?' इत्युक्त्वा राजा सर्वपरिवारयुतः कुमारेण सह नगरसमीपे समाययो, ततस्तेन महोत्सवपूर्वकं जामातुनगरे प्रवेशः कारितः तत्र राज्ञा दत्ते मनोहरे प्रासादे स्थितो रत्नसारकुमारस्ताभ्यां सह विषयसुखानि भुङ्क्ते. शुकोऽपि तत्र सुखेन स्वर्णपंजरे तिष्टति.
अथैकदा रजन्यां कुमारो यावत् सुखेन सुप्तोऽस्ति तावत्कश्चिद्दिव्यरूपधारी दिव्याभरणविभूषितशरीरः करवालपाणिः पुरुषस्तत्रागत्य कोपारुणनेत्राभूय कुमारं प्रत्यवादीत् , 'रे कुमार ! यदि त्वं वीरोऽसि तदा सावधानो भव ! मया सह च युद्धं कुरु ? तव वणिग्मात्रस्य शृगालतुल्यस्य बलं सिंहतुल्यमदग्रे कियत्कालं स्थास्यति ?' इति ब्रुवन् द्रुतं शुकसहित पंजरं गृहीत्वा स पलायितः.
॥१६९॥
夢端端樂器端發藥聯懿樂器端继號樂器张馨馨馨馨器等器端端等整體