________________
श्री वर्धमान जिन देशना
॥१६॥
श्रीरत्नसार कथा ।
- 柴柴柴器端端器器端端端端器端器幾號幾號器器器器端器器端器器
च. अहमपि तस्य खेचरस्य भयेन द्रुतमुड्डीय गगनमार्गे चचाल. श्रान्ता सती च विश्रामार्थ तवोत्संगे समागता, इतः स दुष्टविद्याधरोऽपि ज्ञातमद्वृत्तान्तो मम पृष्टेत्र समाययौ, परं हे महाभाग ! मम पुण्ययोगेन त्वया स युध्धे जितः. एतवृत्तान्तं श्रुत्वा तिलकमंजरी विलपितुं लग्ना, 'हे भगिनि ! तापसभावं प्राप्य त्वं महारण्ये कथमेकाकिनी स्थिता ? तथाधुना त्वं तिर्यक्भावेऽपि कथं स्थिता ? पूर्वभवे त्वया किं पातकं कृतं ? यदेवंविधा शोचनीया तव स्थितिबभूव. अथ तवेदं तिर्यक्त्वं कथं दूरीभविष्यति ?' एवं तां विलपन्तीं दृष्ट्वा दयया तेन देवेन सा हंसी कन्यारूपा कृता. एवं ते द्वे अपि भगिन्यौ कौतुकपूर्वकं तत्र मिलिते. ____ अथ कुमारेण तिलकमंजरीं प्रत्युक्तं ' हे सुंदरि ! युवयोयोरपि भगिन्योः परस्परं मिलनं संजाते' अथ त्वं वर्दापनिकायां मह्यं किं दास्यसि तद् द्रुतं वद ? यतो दाने विलंबकरणं युक्तं न. उक्तं च
लंचौचित्यादिदानर्ण-च्छेदे सूक्तभृति गृहे, धर्म रोगे रिपुच्छेदे कालक्षेपो न शस्यते ॥१॥ क्रोधावेशे नदीपूर-प्रवेशे पापकर्मणि ।। अजीर्णभुक्तौ भीस्थाने, कालक्षेपः प्रशस्यते ॥२॥
तत श्रुत्वा तिलकमंजर्योक्तं हे सत्पुरुष! तवोपकारिणो यदि सर्वस्वमपि दीयते तद्यपि स्तोकमेव. इत्युक्त्वा तया कुमारस्य कंठे मुक्ताहारः स्थापितः कुमारेणापि तस्या अत्याग्रहात्स गृहीतः, ततस्तया शुकस्यापि कमलादिपुष्पैः पूजा कृता. ___ अथ स देवः कुमारं प्रत्याह 'भो कुमार ! एते द्वे अपि कन्ये पूर्व चक्रेश्वरीदेव्या तुभ्यं दत्ते स्तः, अथाधुनाहमपि ते दास्यामी' त्युक्त्वा देवेन तयोः कुमारेण सह पाणिग्रहणं कारितं. ततोऽसौ रूपांतरेण त्वरितं चक्रेश्वरीपार्श्व गत्वा सर्व वृत्तां
三聯聯聯佛聯聯佛聯聯染器器器端端帶柴柴柴聯盛號张继端游柴柴柴貓
६८॥