________________
B2%* * *
श्री वर्द्धमान जिन देशना ॥१६७॥
श्रीरत्नसार कथा॥
张继聪柴柴柴柴柴柴柴柴柴聯张柴柴柴柴柴柴桑蒂蒂聯樂器樂樂器东
धुना निजमातृपितृविरहबाधिता ज्ञायते, ततः पश्चात्सर्व मे कथितं करिष्यतीति ध्यात्वा तेन निजविद्याबलेन सा तापसकुमाररूपा कृता. ततोऽसौ तं तापसकुमारं सत्कारपूर्वकं प्रियवचनैः सर्वदा संतोषयामास. परं तत्सर्वमुषरक्षेत्रे धान्यारोप इव | निष्फलं जातं. तथापि स विद्याधरो न तस्या विरतोऽभवत् . यतः कामान्धानां कदाग्रहो दुरुध्योऽस्ति___ अथान्यदा स विद्याधरः केनापि कार्येण मां तत्रैव मुक्त्वा निजपुरे गतः, इतस्तत्रागतस्य भवतो यावदहं निजचरित्रं कथयितुमुद्यताभवं तावत्स दुष्टस्तत्रागत्य झंझावात विकुळ मां निजपुरे नीतवान्. तत्र मणिस्वर्णमंडितदिव्यमंदिरे मां स्थापयित्वा भोगविलासाय प्रार्थयामास. तथापि मया यदोत्तरं न दत्तं, तदा स कुपितः सन्नुवाच, 'यदि त्वं मम कथनं न करिष्यसि तदानेन खड्गेनाहं त्वां हनिष्यामी त्युक्त्वा तेन कोषात् खड्गो निष्कासितः, परं मया धैर्यमवलंब्योक्तं ' भो सत्पुरुष ! छलेन बलेन वा राज्यादिकमेव गृह्यते, संबंधस्तु स्नेहेनैव भवति. ततः परस्नेहं विना यो मुढो निजहठान न निवर्त्तते तस्मादपरो जगति को मूर्योऽस्ति ? तत् श्रुत्वातीवकुपितो विद्याधरोऽवादीत् 'रे दुष्टे ! त्वं मामपि निन्दसि, ततस्त्वां हनिष्याम्येव.' मयोक्तं 'रे दुष्ट ! अस्मादनिष्टसंबंधान्मरणमेव वरं, अतो द्रुतं मां मारय ? मा विचारय ??
अथ तस्याः पुण्येन स विद्याधरो मनसि चिन्तयितुं लग्नो धिग् धिग् मयैतत्किमारब्धं ? प्रेमभरः सरलवृत्त्यैवोत्पद्यते, न तु हठात्.' इति ध्यात्वा खड्गं कोषे क्षिप्त्वा, मां च विद्यया मराली विधाय स्वर्णपंजरे क्षिप्त्वा नित्यं मिष्टवचनैः संतोषयामास.
अथैकदाई मरालीरुपेण पंजरस्था तस्य कमलाभिधभार्यया दृष्टा. शंकितया तया निजविद्यायै मम वृत्तान्तः पृष्टः, तदा तया विद्ययापि सर्वो मे वृत्तांतस्तस्या अग्रे निरुपितः. स्वसपत्नीभावं विज्ञाय तयाहं प्रच्छन्नं पंजरानिष्कासिता मुत्कलीकृता
* * * *ER288888***80899%88
॥१६७॥