________________
श्रीं वर्द्धमान जिन देशना
॥ १६६ ॥
वज्राहतः पर्वत इव भूमौ पपात तदैव तस्य बहुरूपिणीप्रभृतयः सर्वा अपि विद्या नष्टाः, तत्स्वरूपं दृष्ट्वा स विद्याधर उत्थाय जीवितमादाय ततो नष्टः, तं पलायितं विलोक्य सर्वे तस्य सुभटा अपि ततः पलायिताः,
एवं धर्ममाहात्म्येन कुमारेण स विद्याधरो जितः.
अथ स कुमारः सुरेण सह चैत्यमध्ये समायातः कुमारस्याद्भुतं चरित्रं दृष्ट्वा हर्षेण पुलकिता तिलकमंजरी चिन्तयामास नूनमेष युवा कोऽपि पुरुषरन्नं वर्त्तते, ततो यद्येष मे भर्त्ता भवेत्तयैव मे भगिन्या अपि चेम्मिलनं भवेत्तदाहं मे महस्पुण्यं मन्ये ततः कुमारेण सा मराली तिलकमंअरीपार्श्वाद् गृहीता.
अथ कुमारस्तां प्रत्यवादीत् 'भो हंसि ! त्वं कासि ? खेचरेण च कथं हृता ? सर्व तत्र वृत्तान्तं ममाग्रे कथय ?' इंस्योक्तं 'हे स्वामिन् यथाभूतं मम चरित्रं शृणु ?"
“वैताढ्यपर्वते रथनूपुराभिधं नगरं वर्त्तते, तत्र मदनाभिधः खेचरेशा राज्यं करोति सोऽन्यदा कनकपुरीवनोपरितो गच्छन् दोलायमानामशोक मंजर्यभिधां राजकन्यां ददर्श तां महारूपपात्रं दृष्ट्वा कामातुरः सन् द्रुतं जहार. ततो अतिकरुणस्वरं रुदतीं तां बालांस विद्याधरोवादीत् 'हे सुंदरि ! त्वं कथं विलापं करोषि ? अहं चौरो नास्मि तव च किंचिदपि दुःखं नैव दास्ये. अहं सर्वदा तव किंकरीभूय स्थाष्यामि, सर्वखेचरीणां मध्ये त्वां स्वामिनीं विधायाहं परिणेष्यामि '
तत् श्रुत्वाशोक मंजर्या चिन्तितं धिग् धिग् कामांधाना पुरुषाणां, कामाग्निना दग्धो जनो निवेंवेकीभूय निजजा तिकुलादि किमपि न गणयति. इत्यादि चिंतयन्त्या तया यावत्प्रत्युत्तरं न दत्तं तावत्तेन दुष्टेन विद्याधरेण चिन्तितं नूनमेषा
************************
श्रीरत्नसार
कथा ॥
॥१६६॥