________________
器鉴器器张密器
श्रीवर्द्धमान
*
* | गतां चेमा मरालीं तव सर्वथाहं न दास्यामि. यतः करालफणिफणातो मणिं गृहोतुं को वांछेत ? अतस्त्वमितो रेऽपसर ? |श्रीरत्नसार जिन देशना अन्यथा तब दशमस्तकैर्दशदिग्भ्यो बलिं दास्ये.'
कथा॥ ॥१६५।। * इतश्च स देवो निजमयूररूपं विहाय देवरूपं कृत्वा विविधानि शस्त्राणि विकुळ कुमारं प्रत्यवादीत , 'भो कुमार ! त्वं
स्वेच्छया निःशंकमनेन सह युद्धं कुरु ? अहं तव सहायिभूत शस्त्राणि पूरयन् तव शत्रु चूरयिष्यामि,' तत् श्रुत्वा तस्य कुमारस्य द्विगुणोत्साहः संजातः, ततोऽसौ तां मराली तिलकमंजर्याः समर्प्य स्वयं चाश्वे समारुह्य देवदत्तं दिव्यधनुषं करे विधाय तस्य टंकारं कृतवान्.
तत् श्रुत्वा सर्वेऽपि विद्याधरसुभटाश्चमत्कृताः संतस्तस्योपरि जलधारामिव शरधोरणि वर्षयामासुः, परं देवप्रभावेण तस्य रोमापि न पीडितं. कुमारोऽपि तेषामुपरि शरवृष्टिं चकार, तदा सर्वेऽपि विद्याधरसुभटाः कातरीभूय ततः पलायिताः, तद् दृष्टा स दुरात्मा दशमुखः स्वयं कुमारेण सह युद्ध कत्त लग्नः, विद्याप्रभावाच्च स सहस्रभुजीभूय तेन सार्द्धमयुद्धथत, कुमारेण क्षुरप्राख्यवाणं गृहीत्वा तस्य सर्वाणि शस्त्राणि छेदितानि, ततो हृदि विद्धः खेचरो निर्गतरुधिरो मूछया धरित्र्यां पपात. | पुनरपि लब्धचैतन्य उत्थाय बहुरूपाणि विकुऱ्या युद्धाय धावितः, परं तैरनेकै रूपैरपि कुमारो न भीतः, यतो धीराः कल्पांन्तेपि कातरा न भवंति. __अथ स खेचराधीशो निजानेकरूपैः कुमारं प्रति शस्त्रपहारं कर्तुं लग्नः, तदा स देवः कुमारं मनाक संकटे पतितं विज्ञाय स्वयं मुद्गरं समुत्पाटय खेचरं हतुं धावितः, तं दृष्ट्वा खेचरेन्द्रोऽपि क्षुब्धः, अथ ऋद्धेन सुरेण स मुद्गरप्रहारेण हृदि हतो
॥१६५॥
諾諾器器端 张器搬器器张张张张熙熙黑
聯聯號端柴柴柴柴柴聽器器器端臻臻號號號藥藥器端端競器蒂蒂雅