________________
श्री रत्नसार कथा ॥
श्री वर्द्धमान
विधायावादीत, 'रे सुभटा यूयं कुत्र धावथ ? अग्रे सुरासुरैरप्यगंजनीय श्रीरत्नसारकुमारं किं न पश्यथ ? अस्मिन् कुमारे तु जिन देशना | क्रुद्धे सति युष्माकं भूमिरपि दुर्लघनीया भविष्यति.' ॥१६॥
इति शुकवचनं श्रुत्वा सभयविस्मितेस्तैश्चिन्तितं 'नूनमेषः कोऽपि देवो वा दानवोऽस्ति, अन्यथास्माकं विद्याधराणामपि स कथं हक्कां कुर्यात् ? किं च यस्य कुमारस्यायं शुकोऽपि यद्यस्मत्तुल्यानां विद्याधराणामपि क्षोभयति, तर्हि को जानाति कीदृशः कुमारोऽग्रे स्थितोऽस्ति ? अतोऽज्ञातस्वरूपं युद्ध कः कुर्यात् ?' इति ध्यात्वा ते सुभटाः पश्चाद्वलित्वा तत्स्वरूपं निजस्वामिने कथयामासुः.
तत् श्रुत्वा स विद्याधरस्वामी मेघद्गवर्जन् हस्तावुल्लालयन भाले भ्रुकुटि विधाय सिंहनादं कुर्वन्नवादीत्, 'भो भो रंका भवतां धिगस्तु ? मुधा भयं कथमकार्षः १ कोऽसौ कीरः कुमारो वा ? ममाग्रे सुरोऽसुरो वा कोऽपि स्थातुं न शक्नोति. पश्य- | ताधुनैव मम पराक्रम ?' इत्युक्त्वा स दशमुखी चतुर्भुजी च संभूय एकेन करेण खड्ग, द्वितीयेन खेटकं, तृतीयेन गदा, चतुथेन च धनुषं जग्राह. एवं निजं विकरालरूपं विधाय सिंहवद्गर्जन् द्रुतमागच्छन् स विद्याधरः शुकेन दृष्टः, तदा स शुकोऽपि भीतः सन् कुमारस्य शरणे गतः. ततोऽसौ खेचरः कुमारसमीपे समागत्य तं तर्जयामास, 'रे रे रंक ! त्वं दूरे ब्रज ? अन्यथा मरिष्यसि, मम जीवितसर्वस्वरूपेमा हंसी त्वयोत्संगे कथं स्थापितास्ति ? चेत्तव जीवनाशा तहि द्रुतं तां मे समय त्वं दुरे| याहि ? अन्यथा खड्गनानेन तव मस्तकं छेत्स्यामि.' तत् श्रुत्वा शुककन्यामयूरमराल्यश्च कंपिताः स्थिताः.
अथ कुमारो हसन्नाह 'रे मूढ ! त्वं मुधा बालमिव मां किं भापयसि ? अहं तब वचनप्रहारतो न विमेमि शरणा
強聯验殘聯號聯端端帶柴柴晓幾號幾號號器端骁漿端器器端鲁器端
柴张张蕊蕊蕊蕊蒂蒂蒂蒂藤条藤藤藤茶茶张馨菱柴柴张蒂蒂荣臻染器
॥१६॥