________________
श्री वर्द्धमान जिन देशना ॥१६३॥
इत आकाशादेको मयूरोऽपि तत्रागतः, अथ भो कुमार ! एवं देवीप्रसादादहमस्मिन्मयूरे समारुह्य प्रत्यहमत्र देवपूजार्थमागच्छामि एवं निरंतरं कुर्वन्त्या मेध्येको मासः संपूर्णी भूतोऽस्ति परं मे भगिन्याः शुद्धिर्मया क्वापि न लब्धा. पुनर्हे महाभाग ! युष्माभिर्देशांतरे भ्रमणं क्रियते ततथेन्मत्तुल्यरुपा क्वापि चेन्मम भगिनी दृष्टा भवेत्तदा कृपां विधाय कथयत ?”
कुमारेणोक्तं ‘भो सुंदरि ! विदेशे भ्रमता मया त्वत्तुल्यरूपा कन्या तु क्वापि न दृष्टास्ति, परमेकस्यामटव्यामतिदिव्यकांतियुतस्त्वत्तुल्यवयोरुपधारी तापसकुमार एको मया दृष्टोऽस्ति इतः शुकेनोक्तं ' भो सुंदरि ! नूनमद्य ते भगिनी मिलिष्यति. '
तत् श्रुत्वा हृष्ट्या तयोक्तं ' भो शुक्र ! चेदद्य मे सा मिलिष्यति, तदा त्वामप्यहं पूजयिष्यामि एवं तेषु परस्परं वार्तालापं कुर्वत्स्वेव कापि भयविह्वला कंपमानांगी हंसी गगनादागत्य कुमारोत्संगे समुपविश्य तन्मुखं पश्यन्ती मनुष्यभायोवाच. 'भो सत्पुरुष ! भो वीर ! भो शरणागतवत्सल ! भो करुणासागर ! दीनां हीनां च मां त्वं रक्ष रक्ष ? अहं तव शरणे समागतास्मि.' कुमारोऽपि दयया कराभ्यां तच्छरीरं स्पृशन्तवादीत्, 'भो मराले त्वं मा भैषीः ? मनुष्येंद्रः खेचरेंद्रः सुरेंद्र सुरेंद्र वापि मदुत्संगस्थितां त्वां लातुं कोऽपि न शक्तोऽस्ति.' ततः कुमारेण तस्याः शीतलजलं पाययित्वा सा निर्भयीकृता. ततः कुमारेण तस्यै पृष्टं ' हे मराले ! कासि त्वं कुतश्चात्रागता ? मनुष्यभाषया च कथं जल्पसि ? कस्माच्च तव भयं वर्त्तते ?' इति पृष्टा सा मराली यावदात्मीयवृत्तांतं कथयितुमुद्यता जाता, तावत्कलकलशब्दं कुर्बाणा सुभटानां श्रेणिराकाशादुत्तीर्णा तदा शंकमानः शुकश्चैत्यद्वारे समागत्य स्थितः सन् तीर्थप्रभावात्कुमारभाग्याद्वा प्रचंडवाचालीभूय भाले भ्रुकुटीं
**********************
श्रीरत्नसार
कथा ॥
॥१६३॥