________________
श्री वर्द्धमान जिन देशना
॥ १७५ ॥
**********
राक्षसेनोक्तं 'हे सज्जन ! सुकृतिनस्तु स्वीकृतकार्यनिर्वाहे निजजीवितत्र्यमपि त्यजन्ति' कुमारोऽवक 'हे राक्षसेंद्र ! त्वया युक्तमुक्तं, परं मया गुरुपार्थे नियमो गृहीतोऽस्ति, अतः पापस्थानरूपेणानर्थकारकेणानेन राज्येन कि क्रियते ? यतो विराधितो नियमः प्राणिनां तीव्रदुःखाय भवति. अतो हे महाभाग ! अपरं दुःकरमपि कार्य त्वं मे समादिश ?”
अथ कुपितो राक्षसोवादीत् 'रे मूढ ! यदि त्वं मे पूर्वप्रार्थनां वृथा करोषि तर्हि नूनं स्वं स्वात्मोपर्येव कुपितो दृश्य से, यत्र क्रोधेन युद्धं विधाय जीवसंहारः क्रियते तत्रैव पापं स्यात् न तु सुरदत्तराज्यकरणे पापं किंच रे मूर्ख ! त्वं घृतपानावसरे प्रत्युत किं ब्रूत्कारं करोषि ? मम गृहे समागन्य निःशंक मे शय्यायां शयनं करोषि मम पार्श्वे निजपादतलमुन्मर्पयसि, तथापि यदि त्वं मम कथनं न करोषि तर्हि पश्य तत्फलं इत्युक्त्वा स कुमारं केशेष्याकृष्याकाशे उल्लालयामास पुनरप्याकाशात्पतंतं तं गृहीत्वा स कथयति 'रे मूढ ! कदाग्रहाद् वृथा त्वं किं म्रियसे ? दीयमानां राज्यश्रियं कथं न गृह्णासि ! त्रिदशेनापि मया त्वयोक्तं निंदनीयकार्यमपि कृतं त्वं मूढस्तु मदुक्तं रुचिरमपि कार्यं न करोषि अतोऽधुनापि त्वं राज्यं स्त्रीकुरु ? अन्यथा महत्यां शिलायां रजकवस्त्रवच्चामास्फाल्य मारयिष्यामी' त्युक्त्वा तं कुमारं गृहीत्वा स शीलापार्श्वे समागत्य पुनरप्युवाच 'अधुनापि मम वचनं कुरु वृथा मा म्रियस्व ?'
कुमारेणोक्तं ‘ भो राक्षसेंद्र ! यत्ते रोचते तत्कुरु ? पुनः पुनः किं पृच्छसि ? तत् श्रुत्वा सोऽतीवहृष्टो निराक्षसरूपं त्यक्त्वा दिव्यरूपं प्रकटीकृत्य कुमारोपरि पुष्पवृष्टिं चकार ततोऽसौ जयजयशब्दं कुर्वन् कुमारसमीपे समागत्यावादीत् 'भो कुमार ! सस्ववतां मध्ये त्वमेव धन्योऽसि, स्वत्तुल्येन पुरुषेणेयं पृथ्व्यपि रत्नगर्भोच्यते धर्मविषये तव दृढतां विलो
श्रीरत्नसार कथा ॥
।।१७५।।