________________
श्री वर्द्धमान जिन देशना ॥१५९||
श्रीरत्नसार कथा ।
भवति. एतत्तव शरीरं दिव्यवस्वाभरणैरलंक्रतमेव शोभते, एतत्कर्कशकठिनवल्कलस्पर्श त्वं कथं सहसे ? एषस्तव कजलोऽरिष्टरत्नवर्णसदृशः केशपाशोऽतिकोमलो जटाबंधन न शोभते, एतत्तव लावण्यं नवयौवनं च नवनवभोगैरेव शोभते, अतस्त्वया वैराग्यादेववशाद्वा महादुःखात् किं तापसीवृत्तिगृहीता ?'
तत् श्रुत्वा स तापसकुमारोऽश्रुपूर्णलोचनो गद्गदस्वरेणोवाच 'भो कुमारशुकराजौ भवतोस्तुल्यः कोऽपि सजनः पृथिव्यां नास्ति, यतो मां दृष्ट्वा युवयोः करुणोत्पन्ना. किंचात्मीयदुःखेन सर्वेऽपि दुःखिताः संति, परं परदुःखेन दुःखिता | विरला एव. यदुक्तं
शूराः संति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, संति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षितौ भूरिशः॥ कित्वाकर्ण्य निरीक्ष्य चान्यमनुज दुःखादितं यन्मन-साप्यं प्रतिपद्यते जगति ते सत्पूरुषाःपंचषाः॥१॥
अतो भो कुमार ! अवसरेऽहं सकलं निजचरित्रं यथाभूतं तवाग्रे कथयिष्यामि, यतो विश्वासप्राप्तानां सत्पुरुषाणां किमप्यकथनीयं नास्ति.' इतस्तत्र धूलिधोरणिमुच्छालयन् सर्वदिशोंधकारमयीः कुर्वन् घोरगर्जनं कुर्वन् झंझावातःप्रादुर्भूय तं तापसकुमार हृत्वाग्रे धावितः, तदा स तापसकुमारः पूत्कारं कत्तु लग्नः, भो सज्जनरत्नसारकुमार ! मां रक्ष रक्ष ? तत् श्रुत्वा कृपार्द्रमानसः कुमारोऽपि तत्पृष्टे धावित्वा कथयामास 'रे दुष्टवात ! त्वं मे प्राणप्रिय मित्रं हत्वा क यास्यसि ?' इति अवतो दुतं दुतमग्रे धावमानस्य कुमारस्य कियद्रं गतस्य शुकोवादीत् 'भो रत्नसार ! इयता कालेन स तापसकुमारस्तु दुष्टवायुना लक्षयोजनानि यावरं नीतो भवेत्, ततस्त्वं पश्चान्निवर्तस्व ? तत् श्रुत्वा तीबदुःखितो रत्नसारो विविधविलापान कुर्वन् पश्चाद्वलितः.
器端端器鑑識樂器器鑑聽音
॥१५९॥