________________
श्रीवर्द्धमान जिन देशना ॥ १६०॥
अथ विस्मितः शुको रत्नसारं प्रत्यवादीत् 'भो कुमार ! नूनमेष तापसकुमारः पुरुषो नास्ति, परं स्त्री वर्त्तते, केनापि देवेन दानवेन विद्याधरेण वा निजविद्यादिशक्त्या सैषा पुरुषीकृत्यैवं विडंम्ब्यते, तस्या मुखाकारेण गत्या च तां कन्यामेव त्वं जानीहि ? यदि चैषा एतस्माद्दुष्टसच्चान्मुक्ता भविष्यति तदा निश्चयेन त्वां वरिष्यति.
अथ तौ तं तापसकुमारमिष्टदेववत्स्मरंतौ शीघ्रप्रयाणेनाग्रे चलंतौ नानावृक्षमंडितमेकं वनखंड ददर्शतुः तत्र रत्नसारेणैकमुत्तुंगतोरणध्वजैरलंकृतं श्रीआदिनाथचैत्यं दृष्टं ततो हृष्टोऽसावश्वादुत्तीर्य शुकयुतः पुष्पफलादि गृहीत्वा जिनमंदिरे समागत्य विधिना जिनवरं पूजयामास ततोऽसौ प्रभुस्तवनामकरोत्, तद्यथा
मिरिनाभिणामकुलगर-कुलकमलुल्लासणेगदिवसकर ॥ भवदुहलक्खविहंडण । जयमंडण नाह
तुज्झ णमो ॥ १ ॥
एवं जिनवरं स्तुत्वा चैत्यशोभां सर्वतः पश्यन्नेकस्मिन् गवाक्षे उपविष्टोऽसौ शुकं प्रति भणति 'भो शुकराज ! अद्यपि तस्य तापसस्य शुद्धिः क्वापि न प्राप्ता.' शुकोऽवादीत् 'भो कुमार ! त्वं खेदं मा कुरु ? अद्यैव ते तस्य संगमो भविष्यति '
इत एका कन्या देवांगनेव शिखंडिस्थिता तत्रागत्य चंदनपुष्पादिभिर्जिनेंद्र पूजयित्वा जिनाग्रे नृत्यमकरोत् तद् दृष्ट्वा कुमारशुको चित्ते चमत्कृतौ, सा कन्यापि कुमारस्य मनोहरं रूपं दृष्ट्वातीवविस्मिता. अथ कुमारेण तस्यै प्रोक्तं 'हे बाले ! त्वं कासि ? तब सर्वं वृत्तांतं श्रोतुमहमिच्छामि' तदा सा कन्यावादीत् 'भो कुमार ! त्वं शृणु ? कनकपुरीत्यभिधैका नगरी बर्त्तते, १ श्री नाभिकुलकर कुल कमलोल्लास नै कदिवसकरः भवदुःखलक्षविभेदक जगमंडन नाथ ! तुभ्यं नमः ॥
श्रीरत्नसार कथा ॥
॥१६०॥