________________
श्रीवर्द्धमान
श्रीरत्नसार कथा॥
जिन देशना ॥१५८॥
藥鱗號號號號號號崇藥器暴涨继器馨馨馨馨蒸蒸發器
अतोऽश्वादुत्तीर्य मे वचनानामुत्तराणि देहि ? तत् श्रुत्वा हृष्टः कुमारोऽश्वादुत्तीर्य यावत्तत्प्रश्नानामुत्तराणि न ददाति, तावत्स वाचालः शुकोऽवादीत् , 'भो तापसकुमार! कुलादिपृच्छायास्तव किं प्रयोजन ? न ह्यस्माभिस्त्वया सह विवाहकार्यमारब्धमस्ति. अतस्त्वं प्राघूर्णकोचितं कृत्यं कुरु ! यतोऽतिथिः सर्वमुनीनामपि पूज्य:. उक्तं च
गुरुरग्निदिजातीनां, वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां, सर्वस्याभ्यागतो गुरुः ॥१॥
एवं भो तापसकुमार ! यदि तव कुमारोपरि स्नेहो वर्तते, तदास्य प्राघूर्ण कोचितमेव कार्य कुरु ?' एवं शुक्रवचनानि श्रुत्वा स तापसकुमारोऽतीवहृष्टः सन् शुकस्य कंठे पुष्पमालां प्रक्षिप्य कथयामास, 'भो भो कुमार नूनं त्वं श्लाघ्यो धन्यश्चासि, यस्येदृशः शुकः सखा वर्तते. अथ भो कुमार ! त्वं मम प्राघूर्णको भव ? अहं तु तापसोऽस्मि. ततो भवतो मया कीदृशी भक्तिः क्रियते ? तथापि निजशक्त्याहं भवतो भक्तिं करिष्यामि.' ___ इत्युक्त्वा स रत्नसारं वनखंडे समानीय तस्य वृक्षफलादीनां नामानि श्रावयामास. ततस्तटाके स्नानकरणानंतरं तापसकुमारेण तस्मै पक्वानि सुधासदृशानि द्राक्षाम्रनालिकेरकदलिफनसखजूरराजादननारंगदाडिमजंबूजंबोरादिफलानि ढौकितानि. रत्नसारेणापि शुकेन सह तानि भक्षितानि. ततस्तेन तापसेन तस्मै एलालवंगजातिफलकरादियुतानि नागवल्लीपत्राणि मुखशुद्धये दत्तानि अश्वोचितानि ग्रासधान्यादिवस्तून्यप्यश्वाय दत्तानि. एवं स तत्र सुखेन तस्थौ.
अथ कुमारसंज्ञितः शुकस्तापसकुमारं प्रत्यपृच्छत् 'भो मित्र ! नवयौवनारंभेऽपि त्वयैतद्वतं कथं गृहीतं ? क्वैतत्ते रूपं कोमलं शरीरं च ? क्व चैतदुष्करं व्रतं ? पुन: महाभाग ! तव चातुर्य सौजन्यं चास्मिन्महारण्ये मालतीपुष्पवत्सर्वे निष्फलं
路器端聯染器端端器器蒸蒸蒸蒸蒸驗器鉴器馨馨藥紫藤馨馨器器器第
ॐ॥१५८॥