________________
श्रीवर्द्धमान जिन देशना
॥१५७॥
तदा पित्रोक्तं ' हे वत्स ! शृणु ! यदेतदश्वारुढो मे पुत्रो नित्यं पृथ्व्यां भ्रममाणो वियोगदुःखं दास्यति तेन हेतुना मयायमवो गोपितस्तव च न दर्शितः अथाधुना तमश्वमहं ते समर्पयामि, ततो हे वत्स ! त्वं यथोचितं कुरु ?'
इत्युक्त्वा श्रेष्टिना रत्नसाराय स तुरगः समर्पितः, तत्प्राप्त्यातीवहृष्टो रत्नसारस्तत्पृष्ठे समारुह्य मित्रैः सह पुराद्बहिर्निर्गतः, इतस्ततश्च परिभ्रमन् स वेगेन गंतुं लग्नः.
इतः पंजरस्थः शुको वसुसारश्रेष्ठिनमवादीत् ' हे तात ! कुमारस्तुरगारुढो द्रुतं द्रुतं याति ततो यदि तवादेशो भवेत्तदा कुमारस्य शुद्धथर्थमहं तत्पृष्ठे यामि, दैवयोगाद्विषमस्थानगतकुमारस्य च सहायी भविष्यामीति' शुक्रवचनं श्रुत्वा श्रेष्ठी मुदितः सन्नवादीत् 'भो शुक ! त्वया ममाग्रे साधूक्तं, अथ हे स्वच्छमते ! त्वं शीघ्रं गत्वा कुमारस्य सखा भव ?' तत् श्रुत्वा स शुको* ऽपि निजात्मानं कृतार्थ मन्यमानः पंजरान्निःसृत्य वेगेन कुमारस्य मिलितः, कुमारेणापि स निजलघुभ्रातृवदुत्संगे स्थापितः, तस्य मित्राणि च सर्वाण्यपि पश्चाद्वलित्वा गृहे समागतानि.
अथ कुमारोऽश्वारुढः शुक्रयुतोऽटव्यां गंतु लग्नः, इत एकस्मिन् स्थाने स एकं तापसकुमारं देवकुमारवद्दालारुढं दोलायमानमपश्यत् तं दृष्ट्वा स निजबांधवमिव स्निग्धलोचनाभ्यामेनं विलोकयामास तदा स तापसकुमारोऽपि तं रत्नसारं कंदर्पाकारं दृष्ट्वातीवस्नेहेन चिन्तयति 'कोऽसौ मम प्राघूर्णकः समागतोऽस्ति ?' इति ध्यात्वा स दोलातः समुत्तीर्य तत्समीपे समागत्य तं प्रति वदति. 'हे सत्पुरुष ! को युष्माकं देशः १ किं नगरं १ किं कुलं १ का जातिः १ को जनकः १ का जननी ? के स्वजनाः ? किं नाम ? केन हेतुना च त्वमत्र परिवाररहितः समागतोऽसि ? किं च समीहसे ? अद्य त्वं मे प्राघूर्णकाऽसि,
* श्रीरत्नसार
कथा ।।
**************
॥१५७॥