________________
श्री बर्द्धमान जिन देशना
॥१५६॥
देवावपि न, किंतु द्वीपांतरप्रभवौ तिर्यंचावेव स्तः, अथवा कस्यचिद्दवस्य वाहने वर्तेते. तत् श्रुत्वा किनराज्वादीत् ' भो रत्नसार ! त्वं कुविचारैम मुधा किं विडंबयसि १ मां स्वेच्छाचारिणं विलासवंतं व्यंतरं जानीहि १ किच भो रत्नसार ! त्वमेव तिर्यगतुल्योऽसि, यतः पित्रा स्वं वञ्चितोऽसि '
तदा रत्नसारेणोक्तं 'हे किन्नर ! कथमहं पित्रा वंचितः १' देवोऽवादीत् 'भो रत्नसार शृणु ? तव पित्रा द्वीपांतरादेकोऽश्वः प्राप्तोऽस्ति, सावो नीलच्छविः कृशो लघुकर्णोऽतिचपलः स्थूलस्कन्धो निजस्वामिनश्च जयकारी वर्त्तते. यदुक्तं - निर्मासं मुखमंडले परिमितं मध्ये लघु कर्णयोः । स्कंधे बंधुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे ॥ पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे। राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तगुणैः ॥१॥
तदश्वारुढा जो वायुवत् शतयोजनानि गच्छति, सप्तदिनमध्ये च पृथिव्यां भ्रमित्वा स पुनर्गृहे समागच्छति इदृशो - ऽश्वस्तव पित्रा गृहमध्ये एकांते स्थापितोऽस्ति. रे मूढ ! तदश्वस्वरुपज्ञानवंचितस्त्वं कूटविकल्पैर्मुधा मां दूषयसि ततस्त्वं म प्राप्स्यसि तदैवाहं तव धीरत्वं वीरत्वं च ज्ञास्ये' इत्युक्त्वा स किन्नरो गगने गतः,
अथ तत् श्रुत्वा दूनो रत्नसारो गृहे समागत्य चिन्तयामास नूनमहं पित्रा वंचितो यदीदृगश्वो गृहे स्थितोऽपि तेन मे न दर्शितः, इति ध्यात्वासौ गृहमध्ये प्रविश्य कपाटं दत्वा त्रुटित मंच कोपर्युपविष्टः तदा जनकेनागत्य स संभाषितो ' हे पुत्र ! स्वं कपाटं विधाय कथं त्रुटितमंचके सुप्तोऽसि ? या काचिद्व्याधिराधिर्वा तव भवेत्तां कथय, यथा तत्प्रतिक्रियां करोमि, यतः कथितं विना परैर्न ज्ञायते ' पितुरेतद्वचनेन संतुष्टोऽसौ कपाटमुद्घाट्य बहिर्निर्गत्य यथास्थमात्मीयभावं तमग्रे कथयामास.
श्री रत्नसार कथा ||
॥१५६॥