________________
श्री वर्द्धमान जिन देशना ॥१५५॥
****
रत्नविशालायां नगर्यो समरसिंहाभिधो राजा राज्यं करोति, तत्र नगरे वसुसारनामा च श्रेष्ठी वसति, तस्य च रत्नसाराभिधः पुत्रोऽस्ति. अन्यदा स रत्नसारो मित्रैः सह वनमध्ये गतः, तत्र विनयंधरनामानमाचार्य दृष्ट्वा त्रिःप्रदक्षिणीकृत्य वंदित्वोपविश्य हस्तौ संयोज्य सरिं पृच्छति, 'हे भगवन् ! मनुष्यैः सुखं कथं प्राप्यते ? गुरुणोक्तं 'भो भद्र ! इह लोके परलोके च सन्तोषाञ्जीवैः सुखं प्राप्यते स च संतोषो द्विविधः प्रज्ञप्तः, देशात् सर्वतश्च गृहस्थानां देशतो मुनीनां च सर्वतः संतोषो भवति श्राद्धानां परिग्रहपरिमाणेन देशतः संतोषः कथितः, यदुक्तं
असंतोषवतः सौख्यं, न शक्रस्य न चक्रिणः । जंतोः संतोषभाजो यो, भव्यस्येह हि जायते ॥ १ ॥ तेन गृहस्थेन धनादीनां प्रमाणं विधेयं तत् श्रुत्वा रत्नसारः सम्यक्त्वसहितं परिग्रहस्य परिमाणमकरोत्, तद्यथा - 'हे' भगवन्ने कलक्षरत्नानि मम मुत्कलानि, दशलक्षाः कांचनस्य मे मुत्कलाः, अष्टौ मूढकानि प्रत्येकं मुक्ताफलानां विद्रुमाणां च मे कलानि तथा वृद्धाणकानामष्टौ कोट्यो मे मुत्कलाः, षड् गोकुलानि, मुत्कलानि एकस्मिन् गोकुले च दश सहस्राणि धेनूनां ज्ञेयानि पञ्चशतगृहाणि मे मुत्कलानि, शतवाहनानि मुत्कलानि, तुरगाणां सहस्रं, गजवराणां च शतं मे मुत्कलं, राज्यं च न ग्रहणामि,'
एवं पंचातीचारैर्विशुद्ध पंचमाणुव्रतं तेन गृहीतं. ततोऽसावाचार्य वंदित्वा गृहे समागत्य भव्यरीत्या श्राद्धधर्मं पालयामास. अथान्यदा स मित्रैः परिवृतो वनमध्ये समागतः इतस्ततः परिभ्रमन् स तत्रैकं किन्नरमिथुनमपश्यत्. हयमुखं मनुष्यशरीरमदृष्टपूर्वमश्रुतपूर्वं तद् दृष्ट्वा विस्मितोऽसौ हसित्वावदत्, यद्येतौ मनुष्यौ तर्हि तयोर्धोटकमुखं कथं ? तत एतौ मनुष्यौ न
श्रीरत्नसार
कथा ॥
॥१५५॥