SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिन देशना ॥। १५४ ।। श्री कामदेव श्रावकचरित्रम् ॥ अथ द्वितीयश्राद्धस्य कामदेवस्य चरित्रं प्रारभ्यते— जंबूस्वामी सुधर्मास्वामिनं पृच्छति ततः श्रीसुधर्मास्वामी जंबूस्वामिनं प्रति क.मदेवस्य चरित्रं कथयति – 'अस्मिन् भरतक्षेत्रे चंपाभिधा नगरी वर्त्तते, तस्यां च जितशत्रुराजा राज्यं करोति. तत्र चैकं पूर्णभद्राख्यं चैत्यमस्ति अथ तस्यां चम्पाया नगर्यो कामदेवनामैको गृही वसति, तस्य संपूर्णचंद्रवदना भद्रेत्यभिधा भार्यास्ति तस्य श्रेष्ठिनः पट्स्वर्गकोटथो वाणिज्ये, षट्स्वर्णक्कोटथो व्याजे, पटस्वर्णकोटयश्च निधाने धरित्र्यां क्षिप्ताः संति. दश धेनूनां सहस्राण्येकस्मिन् गोकुले संति, ईदृशानि षड् गोकुलानि तस्य गृहे वर्त्तते. अन्योऽपि बहुऋद्धिविस्तारस्तस्य गृहेऽस्ति एवं मनुष्यसुखान्यनुभवन् स सुखेन कालं गमयति. अथैकदा श्रीवीर जिनेद्रः पूर्णभद्र चैत्ये समागत्य समवसृतः देवैश्व तस्य महिमा कृतः, अथ तस्य भगवतो वंदनार्थं तत्र बहवो नगरलोका गच्छेति तान् दृष्ट्वा कामदेवेनैकः पुमान् पृष्टो भो अद्य नगर्यो किमस्ति ? यदेते लोका बहिर्गच्छन्ति' तदा सोऽवादीत् 'भो श्रेष्ठिन् शृणु ? देवाधिदेवः श्रीवर्द्धमानस्वामी अत्र पूर्णभद्र चैत्ये समयसृतोऽस्ति तस्य वन्दनार्थमेते लोका गच्छंति' तत् श्रुत्वा कामदेवोऽपि महद्धर्धा तत्र गत्वा प्रभुं त्रिः प्रदक्षिणीकृत्य बंदित्याग्रे उपविष्टः, जिनोऽपि मधुरवाण्या धर्मदेशनां ददाति. ' भो भव्यलोका यः पुमान् शुद्धश्रद्धया जिनधर्म करोति स पुमानिह लोके परलोके च रत्नसारवत् सुखी भवति.' तदा श्रीगौतमस्वामी पृच्छति ' हे जिनेंद्र ! कोऽसौ रत्नसारः ? केन प्रकारेण च तेन जिनधर्म कृतः ? कथं च स सुखी जातः १ तत्कृपां कृत्वा यूयं कथयत ? तदा श्रीभगवानुवाच ' भो गौतम ! त्वं सावधानतया शृणु ?' 38288 **************** कामदेव श्रावक चरित्रम् ॥ |1124811
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy