________________
आनंद
श्री वर्द्धमान जिन देशना ॥१५॥
संलेखना॥
號聯等路器器際號路器藤蒂器蒸蒸器器蒂蒂器器端聯蒸茶器茶器聯發
संलेखनां कृत्वालोचितः प्रतिक्रांतो नवकारं स्मरन् कालं कृत्वा सौधर्मदेवलोकेऽरुणवरविमाने महर्द्धिकश्चतुःपल्यायुर्देवो जातः
अथ श्रीगौतमस्वामी भगवंतं पृच्छति 'हे भगवन् ! ततश्च्युत्वा स आनंदः क्व यास्यति ? भगवानाह हे गौतम ! स आनंदः प्रथमदेवलोकाच्च्युत्वा महाविदेहे महर्द्धिककुले उत्पद्य दीक्षां गृहीत्वा केवलज्ञानमुत्पाद्य मोक्षं यास्यति.
एवं भो भव्या आनंदस्य चरित्रं श्रुत्वा धर्मे उद्यमं कुरुत ?
इति श्रीवईमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण राजकीर्तिगणिना गद्यबंधेन प्रणीतायामानंदश्रावकप्रतिबोधनामा प्रथमोल्लासः समाप्त ॥श्रीरस्तु॥
॥ प्रथमोल्लासः समाप्तः॥
张號號聯號聯继號器藥器樂端器藥藥幾张继器器樂樂遊樂器遊染登
॥१५३॥