________________
भी वर्द्धमान जिन देशना ॥१५२॥
आनंदावधि ज्ञानं ।।
一带带聯強強聯柴继端游藤器端端继號幾號聯聯華聯號樂器帶晓张继
समागच्छत ? यथाहं भवत्पादौ शिरसा स्पृशामि. तत् श्रुत्वा गौतमस्वामी तन्निकटे गतस्तेन वंदितो नमस्कृतच.
भथानंदो भगवन्तं श्रीगौतमं पृच्छति 'हे भगवन् ! श्राद्धानां किमवधिज्ञानं समुत्पद्यते ? ' श्रीगौतमेनोक्तं भो आनंद ! उत्पद्यते'.
तदानंदेनोक्तं तर्हि हे भगवन् ! ममाप्यवधिज्ञानमुत्पन्नमस्ति, तेन चाहं लबणसमुद्रमध्ये त्रिदिक्षु पंचपंचयोजनशतानियावत्क्षेत्र जागमि पश्यामि च. अपोलोके लोलकनरकावासं यावत्पश्यामि, उध्वं च प्रथमदेवलोकं यावत्पश्यामि.'
तत् श्रुत्वा गौतमेनोक्तं 'भो आनंद ! अवधिज्ञानेन गृहस्था एतावन्मात्रं क्षेत्रं न जानन्ति, तेन त्वं मिथ्यादुष्कृतं देहि ? तदानंदोऽवादीत् 'हे भगवन् यो जिनवचनमन्यथा प्ररुपयेत्तस्य मिथ्यादुष्कृतं भवेद्वा सत्यप्ररुपकस्य मिथ्यादुष्कृतं स्यात् ?' गौतमेनोक्तं 'भो श्रमणोपासक ! असत्यप्ररुपकस्य मिथ्यादुष्कृतं स्यात्, नेतरस्य.' तदानंदेनोक्तं 'हे भगवन ! तर्हि यूयमेव मिथ्यादुष्कृतं यच्छथ?' ।
तत् श्रुन्वा श्रीगौतमस्वामी शंकां प्राप्य ततो निवृत्य श्रीमहावीरसमीपे गत्वा वंदित्वा च पृच्छति 'हे सर्वज्ञभगवन् ! आनदस्य वचः सत्यं ? वा मम वचनं सत्यं ?
भगवानुवाच 'भो गौतम ! आनंदस्य वचः सत्यं.'
तत् श्रुत्वा स त्वरितं तत्र गत्वानंदं क्षमयित्वा मिथ्यादुष्कृतं दत्तवान्. ततः श्रीगौतमस्वामी आनंद निर्यामयित्वा भगवत्पाचे समागतः एवं स आनंदश्रावको विंशतिवर्षाणि यावजिनधर्म पालयित्वा श्राद्धस्यैकादशप्रतिमा विधिना समाराध्य
柴柴柴晓张继继继聯藥聯继聯聯聯號樂樂聯聯鳞鳞鳞柴榮继遊樂卷藥
॥१५२॥