________________
श्रीवर्द्धमान जिन देशना ॥१५॥
आनंदावधि ज्ञानं ॥
जाविक्कारसमासे, कुणेह समणाण सयलमायारं ॥ हिडिल्लाणं किच्चं, जंतमुवरिमाइ पकुणेइ ॥१७॥ |
इत्येकादशप्रतिमाणां तपः कृत्वा सोऽस्थिवर्मावशेषशरीरो जातः. यथा यथा तस्य शरीरस्य शक्तिस्तपसा हीना जाता, तथा तथा तस्य मनो धर्मेऽधिकं वर्द्धितं. ततोऽसौ निजदेहस्थिति हीनां ज्ञात्वा संलेखनां कृत्वानशनं गृह्णातिस्म.
एतस्मिन् समये वैराग्यरंगे वर्तमानस्य तस्यानंदस्यावधिज्ञानमुत्पन्न. तेन स पूर्वदिशि पश्चिमदिशि दक्षिणदिशि च ज्ञानेन लवणसमुद्रस्य पंचशतयोजनानि यावत्क्षेत्रं जानाति पश्यति च. उत्तरदिशि लघुहिमवंतं पर्वतं जानाति पश्यति च. अधश्च प्रथमनरकपृथ्व्यां लोलकनामनरकावासं यावजानाति पश्यति च. उर्व सौधर्मदेवलोकं यावजानाति पश्यति च.
इतः श्रीवर्द्धमानस्वामिनः साधुपरिवारेणसहितास्तत्र समवसृताः, अहंतमागतं श्रुत्वा सकलोऽपि नगरीलोकस्तत्र वंदितुं समाययौ, भगवद्भिर्देशना दत्ता, तां श्रुत्वा सर्वेऽपि लोका निजनिजस्थानके संप्राप्ताः
अथ प्रशांतचित्तश्चतुर्दशपूर्वधारको बहुविधलब्धिसंयुक्तः षष्टषष्टेन तपसा निरंतरं पारणं कुर्वन् श्रीगौतमस्वाम्यपि प्रभुणा | सहैव तत्र समायात आसीत्. ततः स श्रीगौतमस्वामी षष्ठतपसः पारणके प्रथमपौरुष्यां स्वाध्यायं कृत्वा, द्वितीयस्यां ध्यानं ध्यात्वा, तृतीयस्यां च भगवत्पाधै समागत्यादेश लात्वा प्रासुकाहारार्थ वाणिज्यग्रामे संप्राप्तः, ततश्चाहारं गृहीत्वा पश्चाद्वलमानः कोल्लागसन्निवेशसमीपे गच्छतां लोकानां मुखात् श्रुतं यदानंदश्रावकेणानशनं गृहीतमस्तीति. तत् श्रुत्वा श्रीगौतमस्वामिना चिन्तितमहमपि तत्र गत्वानंदं पश्यामीति ध्यात्वास पौषधशालायां गतः, आनंदोऽपि भगवंतं श्रीगौतममागच्छन्तं दृष्ट्वातीवसृष्टः, परमशक्तत्वादुत्थितुं न शशाक. तदास श्रीगौतमस्वामिनं प्रति वदति हे भगवन् ! कृपां विधाय यूयं मम पार्श्व
***** 強強聯柴柴柴桑器蟲藥藥器端端樂器器帶路路路第张競
॥१५॥