________________
श्री वर्द्धमान जिन देशना ॥१४५॥ ॐ
कल्पवृक्षमुन्मूल्य निंबपादपमारोपयति ? महागजेंद्र विक्रीय को रासभं गृह्णाति ?' यतो मुनिदानफलं मानुष्यसुखं देवसुखं मोक्षसुखं च ददाति तन्मुनिदानफलं विक्रीय कः पुमान् विनश्वरं द्रव्यं गृह्णाति ?' इति जामातुर्वचनं श्रुत्वा श्वशुरो विलक्षभावं प्राप्तः सन् किमपि नादाद ततो जिनदत्तेनापि किंचिन्नार्थितं यतो मानधनाः प्राणांतेऽपि कुलमर्यादां न लोपयन्ति. ततोऽसौ जिनदत्तो निराशः सन् पचाद्वलित्वा निजनगरसमीपे समागतः तत्र नद्यास्तीरे स्थितः सन् स चिन्तयति 'मम भाया महदाग्रहेणाहं श्वशुरगृहे मुक्तोऽभूवं परं ममैतत्स्वरूपं दृष्ट्वा सा दुःखं करिष्यतीति ध्यात्वा नद्या मध्याद्वर्त्तृलकर्कराणां पोट्टलिकां वध्वा, मस्तके च धृत्वा स निजगृहे समागतः भार्या च ग्रन्थिसहितं निजपतिमागच्छन्तं दृष्ट्वातीवमुदिता सती सन्मुखमागत्य ग्रन्थि जग्राह गृहीत्वा चैकान्ते स्थापयित्वा तन्मध्यादेकं रत्नं गृहीत्वा कस्यचिद्वणिजो हट्टे ग्रहण के मुक्त्वा भोजनादिसामग्रीं गृहीत्वा रसवतीं विधाय तया सा निजभत्तेर्भक्ति चकार.
तदा स श्रेष्ठी चिन्तयति नूनमेषा मे पत्नी मुग्धास्ति, यद ऋणं कृत्वा मम भक्तिं करोति सा च भक्तिः पश्चान्मे दुःखदात्री भविष्यति ऊक्तं च
अधिकार - ऋणं गर्भ - चतुर्थ श्वानमैथुनं । आगमे सुखदं सर्व, निर्गमे दुःखभाजनं ॥ १ ॥
इति विचिन्त्य श्रेष्ठिनोक्तं 'हे मुग्धे सुधा त्वं मस्तके ऋणं कथं करोषि ? पश्चात्तत्क उत्तारयिष्यति ? प्रांते च तन्मे दुःखदं भविष्यति' तत् श्रुत्वा सावादीत् 'हे नाथ यदा मम पित्रा तवानर्गला लक्ष्मादत्तास्ति, तदैवं किं त्रविषि ?' तत् श्रुखा चमत्कृतः श्रेष्ठी गत्वा यावत् पोट्टलिकां पश्यति तावन्मुनिदानप्रभावात्तानि सर्वाणि कर्कराणि रत्नमयीभूतानि पश्यति तदा
श्री जिनदत्त
कथा ॥
॥। १४५ ।।