________________
श्री वर्द्धमानः जिन देशना ॥१४४॥
श्री जिनदर कथा॥
एकदा स तत्र गंतुं मनोऽकार्षीत. तदा भार्यया तस्मै प्रचुरसत्तुकशबलं प्रदत्तं, तद् गृहीत्वा स श्वशुरनगरं प्रति चचाल. मार्गे तस्योपवासो जातः, द्वितीयदिने मध्याह्ने स एकस्मिन् ग्रामे प्राप्तः, तत्र तटाकमेकं विलोक्य तस्य पाल्यां वृक्षाध उपविश्य * तेन सत्तकं जलक्लिन्न कृतं. ततोऽसौ मुखधावनं कृत्वा चिन्तयति 'मम गृहे तु साधुसाव्यः समायान्ति, परमधुनात्र चेत्कोऽपि मुनिरायात्तदा मे महद् भाग्यं.
एवं स यावच्चिन्तयति तावत्तस्य भाग्ययोगेनैको मुनिस्तत्रायातः. स मुनिनिरंतरं मासक्षपणं करोति, पारणकदिने च प्रथमपौरुष्यां स्वाध्यायं करोति, द्वितीयस्यां ध्यानं ध्यायति, तृतीयस्यां च पात्राणि प्रतिलिख्य भिक्षार्थे गच्छति. एवंविधं मुनिमागतं दृष्ट्वातीवहृष्टो जिनदत्तस्तस्य सन्मुखं गत्वा वंदित्वा च विज्ञपयति ' हे मुने ! प्रासुकाहारग्रहणेन मां निस्तारय ?' तत् श्रुत्वा मुनिरपि योग्यं विज्ञायाहारं जग्राह श्रेष्टिनापि शुद्धभावेन तत्सुपात्रदानं ददतानगलं पुण्यमुपार्जितं.
अथ श्रेष्टी चतुर्थदिने श्वशुरस्य गृहं प्राप्तस्तत्र जिनोक्तविधिना पारणं चकार. ततः श्वशुरेण तस्मै पृष्ट, भो जोमातः कथं त्वमत्र समागतः ?' तेनोक्तं 'द्रव्यार्थमागतोऽस्मि.' तत् श्रुत्वा सर्वपरिवारेण चिंतितं चेदस्मै द्रव्यं प्रदास्यते, तदासौ सर्व तक्षयिष्यति, पश्चाकिमपि नागमिष्यति. तस्मात्कुलदेव्यापृच्छयते, कुलदेवी च यद्वदेत्तक्रियते. इति विचिन्त्य तैनिजकुलदेव्यागधिता, साप्यागत्य तेभ्य उवाच, भो श्रूयतां ? अनेन मुनये दानं दत्वा यन्पुण्यमुपार्जितमस्ति तन्मध्याद्यद्यसौ चतुर्थांशं दद्यात्तदा स यत्किश्चिन्मार्गयेत्तद्देयं, नान्यथा. इति देव्या वचनं श्रुत्वा जिनदत्तं श्वशुरोऽवदद् भो जामातर्मुनिदानफलमध्याश्चतुर्थाशं मे देहि ! यथा तवाहं प्रचुरं द्रव्यं यच्छामीति श्रुत्वा जिनदत्तोऽवादीत 'भो श्वशुर ! त्वयैतदयुक्तमुक्तं, कः
ॐ
॥१४४॥