________________
श्रीजिनदत्त कथा ॥
श्री वर्द्धमान पात्रदाने फलं मुख्य, मोक्षः सस्यं कृषेरिव । पलालमिव भोगास्तु, फलं स्यादानुषङ्गिकम् ॥४९॥ जिन देशना जिनानां दानदातारः, प्रथमे मोक्षगामिनः । धनादयो दानधर्मा-बोधिबीजसमुपार्जयन् ॥५०॥ ॥१४३॥ जिनानां पारणे भिक्षादातृणां मन्दिराजिरे । हर्षोत्कर्षपराः सद्यः. पुष्पवृष्टिं व्यधुः सुराः ॥५१॥
इत्यतिथिसंविभाग-व्रतमेतदुदीरितं प्रपश्चन । देयादेये पात्रा-पात्रे ज्ञात्वा यथोचितं कुर्यात् ॥५२॥
अथानंदोऽतिथिसंविभागवतं जिनमुखात् शगोति. यः श्राद्धोऽतिथिसंविभागवतं सदा पालयति स भोगान् भुक्त्वा स्तोककालेनैव शिवसुखं प्रामोति, अतिथिः साधुः कथ्यते, तस्मै यः पुमान् दानं ददाति स जिनदत्तवदिह भवे ऋद्धिं प्रामोति, परभवे च शिवसुखमपि लभते. तत् श्रुत्वानंदः पृच्छति 'हे भगवन् ! कोऽसौ जिनदत्तः ? कथं तेन मुनये दानं दत्तं , इति पृष्टो जिनोऽवादीत् 'भो श्राद्ध ! तस्य दृष्टांतं शृणु ?'
पोतनपुरे नगरे जिनदत्ताख्यो महर्द्धिको व्यवहारी वसति, तस्य पूर्णाभिधा भार्या वर्तते, स श्रेष्टी दानरुचिर्भद्रकभाव* श्वास्ति. अन्यदा श्रीधर्माचार्यस्तत्र नगरे समवसृतः, जिनदत्तश्रेष्टी च तद्वन्दनार्थ गतः, विधिना च वंदित्वोचितस्थानोपविष्ट
आचार्योपदिष्टं धर्मोपदेशं श्रुत्वा स श्राद्धधर्ममंगीचकार. एकांतरमुपवासं त्रिसंध्यं जिनपूजामुभयसंध्यं च प्रतिक्रमणमहं करिष्ये इत्यभिग्रहं स जग्राह, ततोऽसौ मूरीन वदित्वा गृहे समागतः शुद्धभावेन जिनधर्ममाराधयति.
अथ कियता कालेन स निजपूर्वकर्मदोषेण निर्धनो जातः, तदा तस्य भार्ययोक्तं 'हे स्वामिन् ! त्वं मे पितुर्गुहे ब्रज ? मम पितुः पाल्लिक्ष्मी समानीय च व्यापारं कुरु ?' तत् श्रुत्वा जिनदत्तो लज्जया तत्र न गतः परं भार्यायाः सततप्रेरणत
帶柴柴柴柴柴聯聯帶路器跳跳樂器端帶柴柴柴柴柴柴柴器帶聯染
哥带弟弟樂樂器部柴柴柴柴柴柴柴柴器器聯號號號染器蒸熟蒂蒂导游第
॥१४३॥