________________
श्री बर्द्धमान जिन देशना ॥१४२॥
अतिथि संविभाग महिमा
器路端織器蒸發器端端端端端樂器器端器義聯號幾號幾號號幾號瓷器
कषायवस्त्रा निर्वस्वाः, शिखामौण्डथजटाधराः एकदण्डास्त्रिदण्डा वा, गृहारण्यनिवासिनः॥३५॥ पश्चाग्निसाधका ग्रीष्मे, गलन्ती धारिणो हिमे । भस्माङ्गरागाः खट्वाङ्ग-कपालास्थिविभूषणाः ॥३६॥ स्वबुद्धथा धर्मवन्तोऽपि, मिथ्यादर्शनक्षिताः। जिनधर्मद्विषो मूढाः, कुपात्रं स्युः कुतिर्थिनः ॥३७॥ प्राणिपाणापहरणा-मृषावादपरायणाः । परस्वहरणोद्युक्ता, प्रकामं कामगर्दभाः॥३८॥ परिग्रहारम्भरता-न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः, कापनाः कलहप्रियाः ॥३९॥ कुशास्त्रमात्रपाठेन, सदा पण्डितमानिनः । तत्त्वतो नास्तिकमाया-अपात्रमिति शंसिताः॥४०॥ इत्यपात्रं कुपात्रं च, परिहृत्य विवेकिनः । पात्रदाने प्रवर्तन्ते, सुधियो मोक्षकाशिणः॥४१॥ दानं स्यात्सफलं पात्रे, कुपात्रापात्रयोरपि । पात्रे धर्माय तच्च स्या-दधर्माय तदन्ययोः ॥४२॥ पयःपानं भुजङ्गानां, यथा विषविवृद्धये । कुपात्रापात्रयोर्दान, तद्वद्भवविवृद्धये ॥४॥ स्वादु क्षीरं यथा क्षिप्तं, कट्वलावुनि दुष्यति । दानं दत्तं शुद्धमपि, कुपात्रापात्रयोस्तथा ॥४४॥ दत्ता कुपात्रापात्राभ्यां, सर्वोद्यपि फलाय न । पात्राय दत्तो ग्रासोऽपि, श्रद्धया स्यान्महाफलः ॥४५॥ इयं मोक्षफले दाने, पात्रापात्रविचारणा । दयादानं तु तत्वजैः, कुत्रापि न निषिध्यते ॥४६॥ शुद्धयशुद्धिकृता भङ्गा-श्चत्वारः पात्रदानयोः । आद्यः शुद्धो द्वितीयो वैकल्पिकोऽन्यौ तु निष्फलौ ॥४७॥ दानेन भोगानामोता-त्यविमृश्यैव भाष्यते । अनर्घ्यपात्रदानस्य, क्षुद्रा भोगाः कियत्कलम् ? ॥४८॥
॥१४२॥